Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________
१८७
१८८
परिशिष्ट-२ दानस्योपरि कृतपुण्यकथा निद्रान्तेऽथ स विज्ञाय, तत्करी जरतीकृतम् । भूयो भूयो निन्दति स्म, तदस्वं निरुपार्जनम् ॥८३ ॥ आकर्ण्य कृतपुण्यस्य, प्रिया सार्थं तमागतम् । प्रजिघाय धियोदन्तं, जिज्ञासुः पत्तिमेककम् ॥८४ ॥ भो भद्र! भद्रमस्त्यस्याः , किं चापश्यमभूत्तदा । इति पृष्टोऽमुना पत्तिः, पुत्रजन्म न्यवेदयत् ॥८५ ॥ पुत्रहस्ते समासौ, मोदकानां प्रसेविकाम ।। व्रजति स्म निजं धाम, धनानर्जनदुर्मनाः ॥८६॥ अभ्युत्थानादिना सा तं, सच्चकार विचारवित् । निर्धने सधने वापि, पत्यौ तुल्याः कुलाङ्गनाः ॥८७॥ तदा च लेखशालाया, भोक्तुं पुत्रः समाययौ । तस्मै सादत्त तन्मध्यादेकं बालाय मोदकम् ॥४८॥ सोऽपि तं स्वादमानः सन्, छात्रवृन्दमुपाययौ । दन्तसङ्घट्टविज्ञातुं, पाणौ स मणिमाददे ॥८९॥ (विस्मितश्च सतीर्थानां, अदीदृशदधित्वरः ।) भासुरः समस्तेषां, किमेतदिति पृच्छताम् । आरोहत्पाणिपोषु, प्रत्येके लेखशालिनाम् ॥१०॥ प्रेषयन् पाणिना रत्नं, कुमारस्फारसम्पदः । आपणं कन्दुवृत्तस्य, रममाणः क्रमादगात् ॥११॥ शिलामये जलामत्रे, मणिस्तत्पाणितोऽपतत् । बभूव तेन तत्तोयं, सर्वं विपणिवत् द्विधा ॥१२॥ जलकान्तममुं मत्वा, बालं कान्दविकोऽवदत् । नित्यं दास्यामि ते पूपा-नेतं मम समर्पय ॥१३॥
कथारत्नसागरे इति विप्लाव्य तं बालं, मणिं कान्दविकोऽवदत् । लोभो भवति बालानां कोऽन्यो भक्ष्यं विना ननु ? ॥१४॥ इतश्च सेचनाख्योऽस्ति, पट्टहस्ती महीपतेः । यः सप्तभिः श्रवत्यङ्गे, हरिद्वर्णं मदं सदा ॥९५ ॥ समातङ्गः कपिलाक्ष-स्ताम्रौष्ठमुखतालकः । पृथ्व्यायतधरास्यि-मुश्लिष्टस्कन्धबन्धकः ॥१६॥ बृहद्वृत्तायतग्रीवो, गर्जितोर्जितबंहितः । सुवृत्तायतलाङ्गेलः, सुगन्धगलमारुतः ॥१७॥ तुङ्गौ कूर्मोपमौ रोम-कूपैकतनुरोमकौ । कुम्भौ पृष्टोछ्रया मग्नं, चापाभं वंशमायता ॥१८॥ विंशति च नखांश्चापो-न्नतांस्ताम्रारुणत्विषः । वृत्तं स्थूलं प्रलम्बं च, रेखायुतत्रिकं करम् ॥१९॥ अरुणं पुष्करं दीर्घाङ्गुलिराजिसुगन्धि च । वारुणिकपिशौ स्निग्धा-वुन्नताग्रौ दृढौ रदौ ॥१०० ॥ हनुगुह्यललाटानि, नाभिं च श्रवणद्वयम् । दधाति यः सुविस्तीर्णं, साधूनां मानसं यथा ॥१०१॥ इत्यन्यदपि भद्रस्य, पालकावर्षिणोदितम् । लक्षणं विविधं बिभ्रत्, बभौ स क्षितिमण्डनम् ॥१०२ ।। पट्टहस्ती तदानीं स, वपुः सिञ्चन्निजेच्छया । नद्यन्त:पादयोर्नद्यः ध्वस्तं तु जलतन्तुना ॥१०३ ॥ बिभ्रत्त्यागवर्गेण, तं न्यवेदि नरेशितुः । सोपि बुद्धिनिधानायाऽभयसञ्जायमन्त्रिणे ॥१०४॥ जलकान्तमणिः कोशा-गारे तेन विलोकितः । निन्हुतो रत्नसङ्घन, क्वापि प्रापि परं न सः ॥१०५ ॥

Page Navigation
1 ... 102 103 104 105 106 107 108 109