Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________
१९१
परिशिष्ट-२ दानस्योपरि कृतपुण्यकथा यमकं प्रियरूपस्य, यक्षरूपं निरूप्य तम् । आगताऽनङ्गसेनापि, जगादेति सगद्गदम् ॥१३०॥ सुस्वप्नदर्शनेनाद्य, भो यक्ष ! तव दर्शनम् । कृतं कदा पुनर्भावि, तस्य मे जीवितेशितुः ॥१३१ ॥ निवर्तमानया यक्ष-मभ्यानगसेनया । अदृश्यत प्रियः प्रीति-पूर्वमेवं च भाषितः ॥१३२ ॥ प्राणप्रिय ! प्रतिग्रामं, प्रत्यद्रि प्रतिकाननम् । अद्राक्षं त्वां तदा मन्द-भाग्या न पुनराप्नुवम् ॥१३३ ।। सुभग! त्वद्वियोगेन, सञ्चितस्य चिरं हृदि । दु:खस्य वेणिबन्धेन, सङ्गमोक्षोऽस्तु बन्धुना ॥१३४ ॥ अनुज्ञायाऽभयस्यामं, प्रियाप्रेमवशंवदाः । पञ्चापि ताः समादाय, निजमाश्रयमाश्रयत् ॥१३५ ।। दैन्यदैन्यतमो निघ्नन्, वसुभिर्विश्वसर्पिभिः । स ताभिः सप्तभिर्भेजे, जिह्वाभिः सप्तजिह्ववत् ॥१३६ ॥ वैभारपर्वतेऽन्येधुर्महामोहतमोपहः । उदयाद्राविवादित्यः, श्रीवीरः समुपाययौ ॥१३७॥ चन्द्रोज्वलगुणश्रेणिः, श्रेणिकस्तत्र भूधनः । अभयः कृतपुण्यश्च, जिनं वन्दितुमाययुः ॥१३८॥ विभुर्भुवनविख्यात-ज्ञातवंशनभोरविः । दुष्कर्मकर्ममथनीं, निर्ममे धर्मदेशनाम् ॥१३९॥ प्रस्तावमथ सम्प्राप्य, स्वामिनं कर्मणामिमम । इति विज्ञपयामास, कृतपुण्यः कृतानतिः ॥१४० ।। नाथ ! प्राणिगणोन्माथ-महं परिहरन्नपि । कथं कथय सञ्जातः, सम्पदा सापदां पदम् ॥१४१॥
१९२
कथारत्नसागरे जगदे जगदीशेन, ग्रामे एकत्र कुत्रचित् । उवासो छिन्नवंशास्त्री दवदग्धाऽद्रिभूरिव ॥१४२ ॥ अस्त्येकस्तनयस्तस्या बालको वत्सपालकः । महे कुत्रापि स स्वाम्बां, परमान्नमयाचत ॥१४३ ॥ रुदन्तीं तदभावेन, प्रातिवेश्मिकयोषितः । दत्त्वा दुग्धादिसामग्री, वारयामासुराश्रुतम् ॥१४४ ।। पक्वां क्षैरेयिकां कांस्य-भाजने परिवेष्य च । ययौ कार्येण केनापि, प्रातिवेश्मिकवेश्मनि ॥१४५ ।। तदा तत्रागमत्कश्चित्, मासक्षपणिको मुनिः । कुमारः सोपि तं वीक्ष्यो-त्तस्थौ रोमाञ्चिताङ्गकः ॥१४६ ।। तस्मै भागमदादेकं, मुदितः पायसस्य सः । मासोपवासिनः स्वल्प-मेतदित्यपरं ददौ ॥१४७ ।। ददौ तृतीयवेलायां, समस्तमपि पायसम् । जीवः स वत्सपालस्य, वत्स त्वं कृतपुण्यकः ॥१४८ ॥ यत्त्वया मुनये दानं, त्रिभिर्भागैस्तदा ददे । स्खलिताः समपद्यन्त, तेन ते सुखसम्पदः ॥१४९ ।। श्रुत्वेति स स्मृतप्राच्य-भवः प्रभुपदान्तिके । कृतपुण्यस्तपस्तप्त्वा, जज्ञे सुगतिभाजनम् ॥१५०॥
इति कृतपुण्यकथा

Page Navigation
1 ... 104 105 106 107 108 109