Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________
परिशिष्ट-२ दानस्योपरि कृतपुण्यकथा
१८९ विनाशो हस्तिरत्नस्य, माभूदिति भृशोत्सुकः । एवमाघोषयामास, पटहेन महीपतिः ॥१०६॥ उपानयति यः कश्चित्, जलकान्तं मणिं जवात् । दत्ते क्षितीश्वरस्तस्मै, राज्यार्द्धन युतां सुताम् ॥१०७॥ मुदा कान्दविकः स्पृष्ट्वा, पटहं त्वरितैः पदैः ।। आगत्य ढौकयामास, जलकान्तं महीभुजे ॥१०८॥ मणिमहाप्रभावोऽयं, नदीनीरं व्यधात् द्विधा । जलाऽभावभिया तन्तुरपि नंष्ट्वा गतः क्वचित् ॥१०९॥ विवेशकुशली सोऽथ, चतुरं सेचनः करी । चित्तं तु कन्दुवित्तस्य फललाभमनोरथः ॥११० ॥ कन्दुवित्ताय दास्यामि, कथं कन्यामहं निजाम् । इति क्षितीन्दुराच्छादि, कादम्बिन्येव चिन्तया ॥१११ ॥ स्वभर्तुराशयं मत्वा-थाऽभयो भयकारिभिः । निर्भय॑ पौपिकं वाक्यैर्यथातथमचीकथत् ॥११२॥ अभयोऽभिदधे युक्त-स्तद्गृहे मणिसम्भवः । भवन्ति कुत्र वा भद्र-गजा विन्ध्यवनं विना ? ॥११३॥ राज्ञः कन्यामथागण्य-पुण्यः स कृतपुण्यकः । विवाहलाभे राज्यस्याऽद्धं च कङ्कणमोचने ॥११४ ।। इन्दोरिव वसन्तेन, सुमनोराजिराजिना । कलानिधेरभूत्तस्या-ऽभयेन सह सौहृदम् ॥११५ ॥ अभयं सोऽन्यदा प्राह, सखे! सन्तीह साङ्गजाः । चतस्रो मे प्रिया क्वापि, न पुनर्वेद्मि मन्दिरम् ॥११६ ।। कृतपुण्य इति प्रोचे, विहस्याऽभयमन्त्रिणा । गेहिनी वेत्सि नो गेह-महो ते कौतुकं महत् ! ॥११७ ॥
१९०
कथारत्नसागरे अनुभूतं ततः स्वेन कृतपुण्योऽभयाय यत् । सर्वं निवेदयामास, वृत्तं द्वादशवार्षिकम् ॥११८॥ सचिवोऽचीकरत् यक्षा-लयं परिसरे पुनः । प्रवेशनिर्गमार्थे च, द्वारद्वयसमन्वितम् ॥११९ ।। कृतपुण्याकृतिर्लेप्य-मयी यक्षस्य तत्र च । प्रतिमा स्थापिता किन्तु, धीमतामस्त्यगोचरम् ॥१२० ॥ यक्षमेनं नमस्कर्तुं, यः कोऽपि न समेष्यति । सकटम्बं व्यधिष्यन्ते, व्याधयश्चाधयश्च तम् ॥१२१ ।। कारितामभयेनेति, निशम्याऽऽघोषणां पुरे । ययुर्यक्षसपर्यार्थ-महम्पूर्विकया जनाः ॥१२२ ॥ जनं विशन्तमेकेन, निर्यान्तमपरेण च । द्वारेण पश्यतां तत्र, कृतपुण्योऽभयश्च तम् ॥१२३ ॥ वृद्धा वध्वश्चतस्रोऽपि, युगपद्यक्षमन्दिरम् । चूडालबालकोद्भासि-करशाखास्तदाययुः ॥१२४ ॥ यक्षं प्रियसदृक्षन्तं, वीक्ष्य साश्रुसुलोचनाः । स्विन्नाः कम्प्राः सरोमाञ्चमिसूवुर्विरहातुराः ॥१२५ ॥ वल्लभेन सहाऽस्माकं, जायते यदि सङ्गतिः । तद्यक्षराज ! यच्छामस्तव मोदकसंहतिम् ॥१२६ ।। उक्त्वेति दिक्षु निक्षिप्त-चक्षुषस्तत्र संस्थितम् । प्रियमैक्षन्त भेजुश्च, परां स्मरशरव्यथाम् ॥१२७ ॥ बालका अपि यक्षस्यो-त्सङ्गमारुह्य सम्मदात् । तात ! तातेति जल्पन्तो, विलेगर्गलकन्दले ॥१२८ ॥ तन्मत्वाऽभयमन्त्रीशो, निर्वास्य स्थविरामिमाम् । स्त्रियः श्रियश्च ताः सर्वा, निर्ममे कृतपुण्यसात् ॥१२९ ॥

Page Navigation
1 ... 103 104 105 106 107 108 109