Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 103
________________ परिशिष्ट-२ दानस्योपरि कृतपुण्यकथा १८५ हा पुत्र ! कुत्र यातोऽभूः ?, त्वमियन्तमनेहसम् । स्ववसं मां परित्यज्य, वद कुत्र स्थितोऽसि वा ? ॥५९॥ त्वं ! जात! जातमात्रोऽपि, हृतः केनापि पालनात् । सज्ञया श्रीविलासोऽसि, मा विधा हृदि संशयम् ॥६०॥ त्वद्वियोगे च यद् दुःखं, वचनाऽगोचरं मया । मोहन ! तत्कोऽपि विद्वेषन्नपि मान्वभून्मम ॥६१॥ सङ्गमस्ते निमित्तजै-रद्यैव विनिवेदितः ।। सद्यः फलति कल्पद्रुः, सुस्वप्नप्रेक्षणेन च ॥६२॥ त्वामहं प्राप दुःप्राप-मिह सार्थे समागता । एति प्रगल्भभाग्याना-मकस्मादपि वाञ्छितम् ॥६३॥ विपत्त्या तावकीनस्य, सोदरस्य कनीयसः । त्वत्सम्पत्या च जातास्मि, भाजनं शोक-हर्षयोः ॥६४ ॥ प्रियाचतुष्टयोपेतं, सोदर्यस्य धनं ह्यदः ।, भवन्तमेव शिश्राय, सरिद्वारि च वारिधिम् ॥६५॥ एतासां पुण्यतारूण्य-लावण्यप्रसरस्पृशाम् । स्त्रीणां श्रीणां च भोगेन, तद् वत्स ! सुभगो भव ॥६६॥ श्रुत्वा वचनवैचित्र्य-मिति तस्याः सविस्मयः । सपुण्यः कृतपुण्योयमिति चित्ते व्यचिन्तयत् ॥६७ ॥ अयं स्वयंवर श्रीणां, स्त्रीणां याग उपस्थितः । तदनल्पैर्विकल्पैः किं, स्वार्थप्रत्यर्थिभिर्मम ॥६८॥ ऊचे च तमयं मातः! स्मृतिरत्र न कापि मे । स्ववीर्यसत्त्वमेवाऽत्र, पुरावृत्तेऽसि पण्डिता ॥६९।। मया मातस्तवादेशः, प्रतीष्ठः शिरसा त्वयम् । विराद्धा हि गुरोराज्ञा, श्रेयसां प्रतिबन्धिनी ॥७० ॥ १८६ कथारत्नसागरे अथ वध्वश्चतस्रोऽपि, प्रीति-स्फीतिवशंवदाः । भर्तरीव निजे तस्मि-न्नवर्तन्त सपुण्यके ॥७१ ॥ ताः क्रमेण चतस्रोऽपि, जनयामासुरङ्गजान् । द्वादशाब्दी व्यतीयाय, तस्येत्थं भोगसङ्गिनः ॥७२ ।। कृतार्थमन्यचित्ता सा, वृद्धा सन्तानवृद्धितः । वधूश्चतुष्टयं प्राह, रहस्येव तदा वचम् ॥७३॥ जज्ञे तनयसंपत्तिः, सम्प्रत्येष विमुच्यताम् । गहीतामोदसर्वस्वे, माल्ये कस्याऽऽग्रहो भवेत् ? ७४ ।। ताभिरुचे त्वयैवायं, कान्तः कान्तगुणो ददे । अस्माभिर्मानितश्चातः, परं न त्यागमर्हसि ॥७५ ॥ जरती कुर्वती प्राह, मुखं भ्रूभङ्गभीषणम् । हलाः ! स्वच्छन्दचारित्वं, किमिदं वो नवोदितम् ? ॥७६ ।। निर्वंश्याया ममाऽऽदत्त, धनं मा मेदिनीपतिः । सन्तत्यै कश्चिदप्येष, मुधानीतः पुमानिति ॥७७ ॥ इदानीं तु सुता जाता, दक्षिणाऽऽरक्षिणः श्रियः । किमनेनाऽऽत्तसारेण, कुसुम्भेनेव मे ततः ॥७८ ॥ ताः श्वश्रूमथ पप्रच्छु:, कुर्मोऽस्मै शम्बलं ततः । एतयाऽनुमताश्चक्रु-र्मोदकांश्चित्तमोदकान् ॥७९॥ न्यधुस्तदुपधानेऽथ, तदाग्रहवशंवदाः । अन्तप्रक्षिप्तरत्नानां, मोदकानां प्रसेविकाम् ॥८॥ निद्रामुद्रितनेत्रोऽयं सपल्यङ्कोपि वृद्धया । प्रेष्याभिर्मोचितस्तस्मिन्नेव देवकुले निशि ॥८१॥ स एव सार्थस्तत्रैव, तस्थौ प्राच्यास्तदागतः । घटनेऽघटमानस्य, अहो दैवस्य पाटवम् ॥८२॥

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109