Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________
परिशिष्ट-३ सुभद्राकथा
१९३
१९४
कथारत्नसागरे
परिशिष्ट-३ सुभद्राकथा
अस्ति दत्तारिकम्पायां, चम्पायां पुरि विश्रुतः । वनीपकावलीसत्रं, जितशत्रुमहीपतिः ॥१॥ तत्रैव जिनदत्तोऽस्ति, धनो धनवदग्रणीः । जिनभक्तिर्मरालीव, मानसे यस्य खेलति ॥२॥ रूपभद्रा सुभद्राख्या, तस्य सस्यमतेः सुता । अस्ति हस्तिगतिः स्थैर्य-धैर्यादिगुणरत्नभूः ॥३॥ बुद्धदासाभिधोऽन्येधुर्बुद्धभक्तेभ्यभूर्युवा । निनाय नयनातिथ्यं, वातायनगतामिमाम् ॥४॥ सुभद्रामनुरक्तोऽयं, जिनदत्तमयाचत । स पुनस्तां कनी तस्मै, ददौ वैधर्मिकाय न ॥५॥ बुद्धदासः सुभद्रार्थी, श्रावकत्वं सकैतवात् । शिश्रीय सततं जैन-मुनीनां पर्युपासनात् ॥६॥ विनाऽपि श्रद्धया शुद्ध-सिद्धान्तं शृण्वताऽमुना । प्रापि बोधिररुच्यापि, जायुः पातो रुजापहः ॥७॥ साधर्मिकाय तस्मै स, जिनदत्तोऽथ तां सुताम् । प्रददौ प्रीतहत्सोऽपि, तस्याः पाणिमपीडयत् ॥८॥ बुद्धदासोऽपि दिवसै-गतैः कतिपयैरपि । सुभद्रां स्वगृहे नेतुं, जिनदत्तं व्यजिज्ञपत् ॥९॥
जिनदत्तोऽवदद्वत्स ! युक्तमुक्तमिदं त्वया । दूषणं दास्यतेऽमुष्यां, बौद्धौ ते पितरौ परम् ॥१०॥ पुनर्जगाद जामाता, पृथग्गेहस्थितामिमाम् । धारयिष्यामि तत्किं तौ, दूषणं तात! दास्यतः ॥११॥ श्वसुरस्य निदेशेन, सुभद्रा भद्रबुद्धिना । ते[न]पार्श्वे स्वगेहस्य, मुमुचे पृथगाश्रये ॥१२॥ साधूनागच्छतो वीक्ष्य, तद्गृहेऽन्नादिहेतवे । मच्छरछुरिता श्वशू-ननान्हप्रमुखा जगुः ॥१३॥ एकान्ते रमते नित्यं, त्वत्प्रिया व्रतिभिः समम् । स्वायत्तं मन्दिरं स्त्रीणां, वत्स! स्वेच्छाऽभिवर्धकम् ॥१४॥ बभाषे बुद्धदासोऽथ, नेदं सङ्गतिमङ्गति । सतीयं हि सतीत्वं स्याद्, युगान्तेऽपि न मुञ्चति ॥१५॥ दष्टकामा इवोरग्यः, स्वपचान्वयसम्भवाः । श्वशू-ननान्दरस्तस्या-स्ताः प्रस्तावं व्यलोकयन् ॥१६॥ सुभद्रया गृहेऽन्येद्युः, कश्चन क्षपको व्रती । अध्यागतस्तदा ब्रह्मचर्यस्तर्जितदुष्कृतः ॥१७॥ तृणं वायुवशात्तस्य, तदा दृग्मध्यमाययौ । न तदुत्सारयामास, प्रतिकर्मत्वतः स तु ॥१८॥ सुभद्रा वीक्ष्य तद्दध्यौ, तृणेनाऽस्य व्यधिष्यते । चक्षुर्भिक्षां प्रयच्छन्ती, जिह्वयाऽपनयेत्ततः ॥१९॥ विदधत्याश्च तत्तस्याः, सीमन्तगतकुङ्कमम् । क्षपकस्यालगद् भाले, ज्ञातं ताभ्यां न तत्पुनः (तेन तु) ॥२०॥

Page Navigation
1 ... 105 106 107 108 109