Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 101
________________ १८१ १८१ परिशिष्ट-२ दानस्योपरि कृतपुण्यकथा सोऽन्यदाऽनङ्गसेनाया, वेश्याया सदनं गतः । रतोपचारचातुर्याद्, रञ्जितश्च तया भृशम् ॥११॥ अधीयानस्तृतीयं स, पुरुषार्थं तदन्तिके । स्वल्पमपि सस्मार न, पुमर्थद्वयं परम् ॥१२॥ कुट्टिन्यनङ्गसेना या, धनानि धनितोऽनिशम् । प्रेष्ययाऽऽनाययामास, वत्सलः सोपि चार्पयत् ॥१३॥ धनानि सुतवात्सल्य-स्याऽतिभूमिङ्गतः पिता । ददन्निष्टापयामास, भूमिमध्यगतान्यपि ॥१४॥ विधाय निर्धनं गेहं, स्वेनापि निधनं गतौ । पितरौ विषयोद्बोधि-बुद्धितस्तु न बुद्धिमान् ॥१५॥ तथापि धनलोभेन, कुट्टिनी तस्य मन्दिरे । काञ्चन प्रेषयामास, चेटी चाटु पटीयसीम् ॥१६॥ वेगादुपाययौ सापि, कृतपुण्यस्य मन्दिरम् । असस्मार धनभ्रस्यद्-बलभित्तित्रिगोपुरम् ॥१७॥ कौसुम्भेनोत्तरीयेण, शंसती भर्तृमङ्गलम् । तत्रैका प्रैक्षि सौन्दर्य-विधूतस्वर्वधूर्वधूः ॥१८॥ अनुमानेन तत्पत्नी, विज्ञा विज्ञाय तां ततः । [तत:] उवाच तामेवं स्व-स्वामिमुखशिक्षितम् ॥१९॥ प्रेषितास्मि तवोपान्ते, कान्तेन तव सुन्दरि! । ज्ञातुं कुशलवृत्तान्तं, वित्तं चाहर्तुमञ्जसा ॥२०॥ प्रसन्नवदना स्मेर-लोचना सा सुलोचना । भर्तृ सम्भावनाजाग्रद्-पुलकप्रसरं जगौ ॥२१॥ वयस्ये! तस्य कान्तस्य, सर्वदाप्यस्मि किङ्करी । कुशलं तु किमाख्यामि, प्रतिकूले विधौ सति ॥२२॥ १८२ कथारत्नसागरे वदामि मन्दभाग्या किं, स्वसुरौ तौ मितान्तरौ । गतावतुच्छवात्सल्यौ, देवभूयमुभावपि ॥२३॥ विजयिभ्यां श्रियस्ताभ्यां सेव सर्वा समर्पिताः । प्रियस्याङ्गभवस्यार्थे, बहुमन्ये ततो धनम् ॥२४॥ पित्रा मदंगभूषार्थ-मिदं किञ्चन काञ्चनम् । ददे तदेतदादत्स्व, शीलं मेऽस्तु विभूषणम् ॥२५॥ इति आहृत्य सा तन्वी, तनोरुत्तार्य भूषणम् । उपनिन्येऽन्यथाभक्ति-र्न पात्या कुलयोषिताम् ॥२६॥ अलङ्कारं तमादाय, सापि स्वनिलयं ययौ । मुहुर्मुहूस्तदौचित्य-चिन्तनावान्तचेतना ॥२७॥ अनङ्गसेना सहिते, कृतपुण्येऽथ पश्यति । साऽप्यार्पयत् स्वकुट्टिन्य, कथनीयं यथाश्रुतम् ॥२८॥ यत्तया प्रेषितान्यङ्ग-भूषणानि कुलस्त्रिया । रिक्तायाः पण्यशालाया-स्तदिदं पुण्यमार्जनम् ॥२९॥ अलमिक्षुलताकूर्च-कल्पेन तदनेन मे ।। ध्यात्वेति कृतपुण्यस्य, गृहिणी करुणावती ॥३०॥ शम्भली तमलंकार-मेकामेकावली तथा । दीनाराणां सहस्रं च, तस्य प्रत्यार्पयत्ततः ॥३१॥ (विशेषकं) स्वपुत्रिकामथैकान्ते, शम्भलीति बभाण ताम् । नरेण किं दरिद्रेण, पुत्रिके! पण्ययोषिताम् ? ॥३२॥ धनहीनस्ततः पुत्रि! कृतपुण्यो विमुच्यताम् । श्रुत्वेति दूनया चित्ते, प्रत्यूचेऽनङ्गसेनया ॥३३॥ अवज्ञाय च किं मात-विज्ञयाप्यभिधीयते । सेव्यः कृतज्ञभावोऽपि, लोभ एव न केवलः ॥३४॥

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109