Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 97
________________ १७३ परिशिष्ट-१ सत्यव्रते मकरध्वजकथा इति श्रुत्वा जराक्रान्तं, निजदेहं पुनः पुनः । पश्यन्निश्वस्य भूपाल-स्तं प्रति प्रत्यवीवदत् ॥११॥ वसन्तसमयः सोऽयं, सर्वोत्सवशिरोमणिः । उद्यानं कुसुमाकीर्णं, द्रुमसन्दोहसुन्दरम् ॥१२॥ सन्ति सन्तोषकारिण्यः, क्रीडोपकरणं स्त्रियः । किन्तु कामविकाराणां, कारणं नास्ति यौवनम् ॥१३॥ तद्विना न वनक्रीडां, कर्तुमिच्छति मे मनः । शोभते क्रियमाणा हि, क्रियावस्थोचिता नृणाम् ॥१४॥ ततः क्रीडार्थमुद्यान-मागमिष्यति मे सुताः । तेषां तारुण्यरम्याणा-मिदं हि समयोचितम् ॥१५॥ इत्युक्त्वा विसृजद्राजा, दत्त्वार्थं वनपालकम् । कुमारांश्चादिशद् वत्सा!, गच्छत क्रीडितुं वनम् ॥१६॥ पित्रादेशं गृहीत्वा ते, स्नानालङ्कृतमूर्तयः । आरुह्य करिणस्तुङ्गान्, क्रीडां कर्तुं प्रतस्थिरे ॥१७॥ अस्माभिस्तत्र तद्देयं, कुमारा दापयन्ति यत् । इत्यादिक्षुस्सुताध्यक्षं, कोशाध्यक्षान् पतिः क्षितेः ॥१८॥ कुमारा जग्मुरुद्यानं, चिक्रीडु मराजिषु ।। ममजुः केलिवापीषु, चिचिक्युः कुसुमानि च ॥१९॥ सर्वेऽपि कारयामासु-र्बद्धस्पर्धाः परस्परम् । सङ्गीतान्यमरस्त्रैण-सगोत्रैः प्रमदाकुलैः ॥२०॥ तत्रार्थिभ्यो ददुर्लक्ष-मेकः स्वर्णस्य केप्युभे । अन्ये तिस्रश्चतस्रश्च, परेऽर्थिभ्यो नृपात्मजाः ॥२१॥ अदात् कोटिं सुवर्णस्य, कुमारो मकरध्वजः । कोट्यर्थं त्वपरे सर्वेप्यर्थिभ्यो व्यतरन् प्रभोः ॥२२॥ १७४ कथारत्नसागरे इत्याकर्ण्य क्रुधं चक्रे, क्ष्मापतिर्मकरध्वजे । नमस्कर्तुं निशि प्राप्तं, तं बभाषे महीपतिः ॥२३॥ वत्स! त्यागो गुणः पुंसां, यद्यपि प्रतिपादितः । तथापि क्रियमाणोऽसा-वाहार इव मात्रया ॥२४॥ पुरुषस्य गुणाय स्या-दन्यथाऽनर्थकारणम् । ततोऽर्थिभ्यस्त्वयोद्याने, स्वर्णकोटिर्यथा ददे ॥२५॥ तथाऽन्यदा न दातव्या, क्वाप्याधिक्यं न शोभनम् । आयस्थानेषु सर्वेषु, यस्माद्देशे ममाऽखिले ॥२६॥ त्रिंशदेव सुवर्णस्य, जायन्ते किल कोटयः । तत्र भक्तेषु पत्नीनां, यान्ति षोडश कोटयः ॥२७॥ गृहव्यये तु गच्छन्ति, चतस्त्रः कोटयः सदा । हस्तिनामेकया कोट्या, भागो भवति सर्वथा ॥२८॥ गवा-ऽश्व-करभादीनां, वृत्तिः कोटिद्वये व्यधात् । चतस्रः कोटयस्त्यागे, व्रजन्ति सकलार्थिनाम् ॥२९॥ निधाने कोटयस्तिस्रः, स्थाप्यन्ते प्रतिवत्सरम् । तुष्टस्तुष्टस्ततस्त्वं चेत्, कोटिं स्वर्णस्य दास्यसि ॥३०॥ तदा स्तोकेन कालेन, कोशो रिक्तीभविष्यति । दुर्भिक्षे पतिते दैवान्मयि मृत्युमुखं गते ॥३१॥ मत्सुतोऽपि ततो राज्यं, कथं कर्तेति चिन्त्यताम् । पुत्रः प्रोचे भवद्राज्ये, यो भावी चेत्स पुण्यवान् ॥३२॥ तदा वर्धिष्यते कोशा, दुर्भिक्षं भविता न च । अथ निष्पुण्यकः स स्यात्, सञ्चितोऽपि त्रुटिष्यति ॥३३॥ नृपेणो[चे] धनं पित्रोपार्जितं पुण्यवानपि । लब्ध्वा तेन पुमानस्य(न्य)दर्जयन्नवलोक्यते ॥३४॥

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109