Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________
१७२
कथारत्नसागरे
तरङ्ग-१५ : अगडदत्तकुमारचरितम्
१७१ अथ विद्याधराधीशं, भोजयित्वातिगौरवात् । सत्कृत्य वस्त्राभरणै-नराधीशो विसृष्टवान् ॥५०० ॥ चारणश्रमणोऽप्येन-मेनःसम्बन्धवन्ध्यताम् । नीत्वा च शिक्षयित्वा च, विजहार ततोऽन्यतः ॥५०१ ॥ आराध्य व्रतपर्यायं, स्पर्द्धया वर्द्धमानया । ध्यानान्निर्मूल्य कर्माणि, ते सर्वे निर्वृत्तिं ययुः ॥५०२ ॥ इति नृपसुतवृत्तकीर्तनेन, स्फुटगुणदोषविपाकमाकलय्य । सहजमपि विहाय दोषजातं, गुणगणमद्भुतमुद्वहन्तु सन्तः ।।५०३ ।। गच्छे हर्षपुरीयनामनि मुनिप्रष्ठे प्रतिष्ठास्पदम्, प्रख्यातो मलधारिरित्यमलधीनि:सङ्गचूडामणिः । सञ्जज्ञेऽभयदेवसूरिरवनीपाला~पादाम्बुजो येनामारिरकारि जन्तुविततेः सिद्धेशदेशावधेः ॥५०४ ॥ ...र्चिते जैनवेश्मशिखरः श्री हेमसूरिस्ततः सूरिं श्रीमुनिचन्द्र इत्यभिधया चारित्रपात्रं ततो, सिंहोस्मा... मुनिपतिश्रीचन्द्र...ततः देवानन्दमुनीश्वरोऽप्यथ यशोभद्राख्यसूरिस्ततः ॥५०५ ।।
श्रीदेवप्रभसूरिरित्यथ गुरुस्त्रविद्यरत्नाकरः, सूरिः श्रीनरचन्द्र इत्यभिधिया तस्याऽपि शिष्याग्रणी:
एतैनूतन गुम्फमात्रघटना सम्बन्धबन्धूकृतै
दैवीवाचमलं...कथारनैश्चिरत्नैरयम् ॥५०६॥
इति श्रीमलधारिशिष्य श्रीनरचन्द्राचार्यविरचिते कथारत्नसागरे अगडदत्तकुमारचरितं नाम पञ्चदशस्तरंगः॥
शुभं भवतु लेखकपाठकयोः । १. इयं प्रशस्तिः C प्रतौ मध्य एव दृश्यते ॥
परिशिष्ट-१
सत्यव्रते मकरध्वजकथा कुरुते यो मृषावाद-विरतिः सत्यवाग्व्रतः । मकरध्वजवद् भद्र-मुभयत्रापि सोऽश्रुते ॥१॥ तद्यथाद्वीपस्य जम्बूद्वीपस्य भारते समस्ति काञ्चानगरी न गरीयसी लड़ेव कल्याणकलावकल्पितापरिस्फुरत्पुण्यनतालकेव ॥२॥ धनैरनन्धोत्र जनो न भोजनं. सरः सदम्भो न तपोधनव्रजः । सतामनागश्चरितं न भूतिर्वपुस्तरीणामनयोन चारः ॥३॥ तत्राभून्नृपतिर्वीर-दमनो नाम विश्रुतः । यः सौन्दर्याच्च शौर्याच्च, नारीणामभवत् प्रियः ॥४॥ प्राज्यास्तस्याभवन् पुत्राः, तन्मध्ये यः पुनर्लघुः । रूपवानिति पित्रोक्तः, स नाम्ना मकरध्वजः ॥५॥ अन्यत्तद्र्व्यमन्यः स, वेधा येनैष निर्मितः । अन्यथा कथमस्याङ्गमुत्कृष्टं जगतोऽप्यभूत् ? ॥६॥ क्रमाद् वृद्धिं गतोऽधीती, कलासु सकलासु यः । तीक्ष्णबुद्धिबलाद् बाढं, नदीष्णः शकुने भवेत् ॥७॥ ततः स भूतभाव्यर्थ-परमार्थं विदन्नपि । ज्ञापयामास सन्मान-मसौ कार्य विना महत् ॥८॥ अथ मलयसमीरोद्दीपिताऽनङ्गवह्निः, प्रतिविपिनविसर्पत्कोकिलारावरम्याः । विविधकुसुमगन्धं भ्रान्तभृङ्गाभिरामः, समुदलसदनूनं चक्रवर्तीव सच्छः ॥९॥, उद्यानपालकस्तत्र, नत्वा भूपं व्यजिज्ञपत् । गत्वोद्यानं वसन्तर्तुं, देव ! पश्य प्रसीद नः ॥१०॥ १. मकरध्वजकथा - TVKS प्रतिषु नास्ति ॥ D मध्ये अस्ति।

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109