Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 98
________________ १७५ परिशिष्ट-१ सत्यव्रते मकरध्वजकथा विद्यमानं यथा बीज-मुप्त्वाऽनपेक्षोपि कर्षकः । धान्यमाप्नोति पित्रर्थात्तथा पुत्रोऽर्थमश्रुते ॥३५॥ पुत्रः प्रोचे यदादाय, पुण्यं पूर्वभवार्जितम् । जन्तुस्तात ! तदेवास्य, बीजं सर्वार्थसिद्धये ॥३६॥ क्रुधा राजाऽब्रवीद् बीजं, पुण्यमेव यदि श्रियः । आनय स्वर्णकोटिं तं, शिरच्छित्वाऽन्यथार्पय ॥३७॥ इत्याकर्ण्य पितुर्वाक्यं, सामर्षो मकरध्वजः । निष्क्रान्तः सदसो द्वारः, केसरीवाऽद्रिकन्दरात् ॥३८॥ पुरीपरिसरं याव-जगाम मकरध्वजः । तावद्दक्षिणदिगवर्ती-रासभौ रसितं व्यधात् ॥३९ ।। ततोऽपशकुनाशङ्की, मुक्त्वा पूर्वामसौ दिशम् । चलितः पश्चिमां याव-चक्राम कियती भुवम् ॥४०॥ ततो दक्षिणदिग्भागे, सोऽश्रौषीत् कौशिकस्वरम् । तमप्यशकुनं मत्वा, प्रतस्थे दक्षिणां दिशम् ॥४१॥ ततो दक्षिणतो जज्ञे, तस्या घोरं शिवारुतम् । तत् श्रुत्वा दक्षिणं मुक्त्वा, प्राचालीदुत्तरां दिशम् ॥४२॥ ततस्तस्या भवद्वामदिग्भागे पिङ्गलारुतम् । अप्रशस्तमिदं ज्ञात्वा, राजसूनुरचिन्तयत् ॥४३॥ न्यषेधि गमनारम्भ-श्चतसृष्वपि दिक्षु मे । सम्प्रत्यशकुनैरेभि-स्तत्कुत्रान्यत्र याम्यहम् ? |॥४४॥ कथं त्वविनिवृत्याह-मसाधितमनोरथः । उद्भटभ्रकृटीभीमं, पश्यामि पितुराननम् ॥४५॥ साम्प्रतं साम्प्रतं तस्मा-दवस्थानमिहैव मे । रजनी बह्वपायाय, निशीथ: सुविशेषतः ॥४६॥ १७६ कथारत्नसागरे तिष्ठतोऽत्रैव मे किञ्चित्, भद्रं भवति तय॑ते । इदं हि श्रूयते दत्ते, शकुनो मानितो वरम् ॥४७॥ एवं चिन्तापरो यावत्, तत्रास्ति मकरध्वजः । रुदन्ती कथयामास, तस्य तावदिदं शिवा ॥४८॥ नद्यास्तीरेऽत्र, यद्वंश-यष्टिमध्येऽस्ति गोपितम् । तं गृहाण चतुष्कोटि-मूल्यं रत्नचतुष्टयम् ॥४९॥ तत् श्रुत्वा मुदितस्तत्र, प्रयाति मकरध्वजः । यष्टिं ददर्श तत्पाद्ये, कञ्चिदप्रेक्ष्य मानुषम् ॥५०॥ भित्वा क्षुरिकया यष्टिं, रत्नान्यादाय मध्यतः । नगराभिमुखं यावत्, प्रस्थितो मकरध्वजः ॥५१॥ दिव्यगीतध्वनिस्ताव-त्तस्य श्रुतिपथं ययौ । यः पीयूषरसस्पन्द, इव सम्पदमादधौ ॥५२॥ तस्यानुसारगो गच्छन्, व्यन्तराऽऽयतनस्थितम् । मुनीन्द्रमेकमद्राक्षीत्, संज्ञानमिव मूर्तिमत् ॥५३॥ तस्याने स्त्रीगणे दिव्ये, गीताऽऽतोद्यकृतोद्यमे । कुमारेण नरो नृत्यन्, रम्यमूर्तिय॑लोक्यत ॥५४॥ तं पश्यन् कौतुकेनैष, यावत्तत्र क्षणं स्थितः । तावत्सर्वे स संहृत्य, मुनिं नत्वा गतः क्वचित् ॥५५॥ कुमारो विस्मयस्मेरो, नत्वा पृच्छत् तपोधनम् । भगवन ! कस्तवाग्रेऽसौ, व्यधान्नत्यं क्व वा गतः ? ५६॥ मुनिनोक्तमयं यक्षः, काननस्याऽस्य नायकः । वसत्यायतनेऽमुष्मिन्, आश्रित्य प्रतिमामिमम् ॥५७॥ अत्रागतस्य मे स्थाना-दन्यतोऽनेन भक्तितः । निजाङ्गादङ्गनाः कृष्ट्वा, चक्रे सङ्गीतकं क्षणम् ॥१८॥

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109