Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________
तरङ्ग-१५ : अगडदत्तकुमारचरितम् एष द्वेषिमिषादेतान्, विधिर्बन्धूनुपानयत् । यैरकारणमेवाहं, परत्रेह च रक्षितः ॥४५२ ॥ अरण्यमशरण्योऽहं, पुण्यैरश्वेन लम्भितः । सुतः शङ्खपुरेशस्य, सुन्दराख्यक्षितीशितुः ४५३॥ यदत्रैव जिनो देवः, सद्गुरुश्च भवादृशः । तत्त्वज्ञानं च सम्प्राप्तमिति रत्नत्रयं मया ॥४५४॥ रत्नत्रयविहीनो हि, परत्रेह च दुःखितः । चक्रवर्त्यपि नो रङ्कवर्तनीमतिवर्त्तते ॥४५५ ।। इत्युक्ते नृपपुत्रेण, स मुनिः पुनरब्रवीत् । बुधोऽसि वत्स ! येन त्वं, सकृदुक्तेऽपि बुध्यसे ॥४५६ ॥ शतैरप्युपदेशानां, नाऽबुधः प्रतिबुध्यते । क्षीणचक्षुर्जगच्चक्षुलक्षैरपि न पश्यति ॥४५७ ।। गर्भवास-गदत्रास-जरामरणकारणे । भवे भवेत्कुतः सौख्यं, न हि पीयूषमुषरे ॥४५८ ॥ देहिनामिह नि:स्नेहो, देहो दुर्जनसन्निभः । भोजितोऽपि विलिप्तोऽपि, भूषितोऽप्येति वैकृतम् ॥४५९ ॥ रूपं च बाल्यतारुण्य-वार्धकेषु नवं नवम् । भवनाट्यनटस्येह, देहिनः परिवर्त्तते ॥४६० ॥ लक्ष्मी दुष्टपिशाचीव, कथञ्चिद्यदि सिद्ध्यति । सिद्धापि विकृति याति, यन्त्रितापि पलायते ॥४६१ ॥ शृण्वन्तोऽपि न शृण्वन्ति, जानन्तोऽपि न जानते । पश्यन्तो पि न पश्यन्ति, श्री-मदोर्मिविघूर्णिता ॥४६२॥ आयुर्नि:श्वासविश्वास-प्रातिभाव्यनियन्त्रितम् । सह प्रतिभुवागच्छद्, भर्तुको नाम कर्मठः ॥४६३॥
१६८
कथारत्नसागरे मरुन्निरोधनै व, नैव मन्त्रैर्न चौषधैः । नापि सैन्यै नवा दैन्यै-दृष्टं कीनाशनाशनम् ॥४६४ ॥ यच्चैतदद्भुतं भाति, रमणीरामणीयकम् । तदाखण्डलकोदण्ड-मण्डलाडम्बरोपम् ॥४६५ ॥ एतत्तावत् प्रकृत्यैव, मनः पवनचञ्चलम् । तत्सर्वदा तदाधारं, प्रेमस्थेमपचं कुतः ? ॥४६६ ॥ योऽसौ कुटुम्बसम्बन्धो, बन्धुरः प्रतिभासते । सोपि सङ्गीतरङ्गान्त-र्जनसङ्गमसन्निभः ॥४६७ ।। जराया रूपसर्वस्व-हरायाः सति सौप्तिके । तत्पुरोगेषु रोगेषु, क्षुद्रोपद्रवकारिषु ॥४६८ ॥ मृत्यौ च कुलसंहार-कारिणि स्वैरिवैरिणि । कायच्छायच्छलान्नित्यं, यातायातं वितन्वति ॥४६९ ॥ संसारसागरावर्त्त-गद्न्तरविवर्त्तिनाम् । यद्देहिनां सुखास्वादस्तदहो मोहवैभवम् ।।४७० ॥ ततः पङ्काद् यथाम्भोज, वंशान्मुक्तामणिं यथा । धर्म संसारतः सारमुद्धरन्ति बुधास्तथा ॥४७१ ॥ लब्ध्वाऽपि मानुषं जन्म, येन धर्मो न निर्ममे । प्राप्तः कल्पद्रुमः सोऽपि, गतस्तस्याऽवकेशिताम् ॥४७२ ॥ तन्मानुष्यादिसामग्री, सफलीकर्तुमिच्छता । विधेयो दशधा धर्मः, सम्यक् सम्यक्त्वपूर्वकः ॥४७३ ।। विरतिः सर्वतः पापाद्, धर्मः स्यात् पञ्चधा यतेः । गृहिणां देशतः सैव, धर्मों द्वादशधा पुनः ॥४७४ ।। देवोऽर्हन्नेव भावेन, महाव्रतधरो गुरुः । सत्त्वरक्षापरो धर्मः, सम्यक्त्वमिति कीर्तितम् ॥४७५ ॥

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109