Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________
१६२
तरङ्ग-१५ : अगडदत्तकुमारचरितम् मञ्जरीभिः प्रदत्तार्थः, सहकारमहीरुहैः । निर्वापितविपत्ताप-पापः स्वागतिकै: पिकैः ॥३८१॥ प्रविशन्नन्तरे तस्य, स्फटिकोपलपीठिकम् । अभ्रङ्कषशिखाश्रेणि-शोणीकृतनभ:प्रभम् ॥३८२ ॥ वातव्याधूतनिौत-पताकालुलनच्छलात् । दिग्वधूभिरविश्रान्त-क्रियमाणनिरुच्छनम् ॥३८३॥ पद्मरागमयं नाना-रत्नसम्भारभासुरम् । 'अमन्दानन्दसार्द्राक्षः, सोऽद्राक्षीज्जिनमन्दिरम् ॥३८४ ॥ (कुलकम्) पुष्करिण्यां पुरस्तस्य, ततो जनितमज्जनः । गृहीतकनकाम्भोजः, सोऽविशन्जिनमन्दिरम् ॥३८५ ।। तत्र प्रासादसौन्दर्य-दर्शनोत्फुल्ललोचनः । युगादिदेवप्रतिमां नेत्रकैरवकौमुदीम् ॥३८६ ।। ज्योतीरसमयीं कान्तिच्छटाजटिलिताम्बराम् । भक्तिभारोत्तरं राजतनूजः समपूजयत् ॥३८७॥ (युग्मम्) नेत्रशुक्तिपुटोन्मुक्त-हर्षाश्रुकणमौक्तिकः ।। पुरो निविष्टस्तुष्टाव, स ध्वस्तवृजिनं जिनम् ॥३८८ ॥ अहो प्रभो! प्रभावस्ते दृष्टे यत् त्वयि सम्प्रति । परमानन्दनिष्यन्द-भावोप्येष ममाभवत् ॥३८९ ॥ याऽसौ चिन्तापि सन्ताप-हेतुत्वेनैव निर्मिता । त्वदालम्बनतः सापि, प्राप सन्तापहारिताम् ॥३९० ॥ श्रद्धाविहङ्गिकाशिक्य-तुल्ययोश्चित्तनेत्रयोः । एकैकस्मिन् धृतोऽसि त्वं, पूर्वमद्यैव तु द्वयोः ॥३९१ ॥
कथारत्नसागरे सेयं जीयाज्जिनाधीश !, त्वद्भक्तेः शक्तिरद्भुता । यया लोकाग्रसंस्थोऽपि, हृदि त्वं मे निवेशितः ॥३९२ ॥ भक्तितस्तव नामापि येनेदं जगदे जिन ! । तेनान्त:शत्रवः सत्यं, जिग्यिरे जगदे जिनः ॥३९३ ॥ ततो जगत्यामागत्य परितः स विलोकयन् । तस्यामपश्यदासीनं, जैनं धर्ममिवाङ्गिनम् ॥३९४ ।। नवाम्भोधरगम्भीर-ध्यानमानन्दमन्दिरम् । चारणश्रमणं कञ्चित्, कुर्वन्तं धर्मदेशनाम् ॥३९५ ॥ (युग्मम्) ततः प्रदक्षिणीकृत्य, मुनिमेनमनेनसम् । प्रणम्य नृपतेः सूनुः, समीपे समुपाविशत् ॥३९६ ॥ अपश्यच्च पुरस्तस्य, प्रबद्धकरकोरकान् । पुरुषान् पञ्च पञ्चेषु-जित्वरान् व्रतसत्वरान् ॥३९७ ॥ स ततः कौतुकोदञ्चि-वचनो मुनिमूचिवान् । कस्येदं मन्दिरं के वा, पञ्चामी पुरतः प्रभोः ? ॥३९८॥ नवीनवयसा देहश्रीसम्भावितवैभवाः । प्रार्थयन्तो व्रतं किं वा, किं वा वैराग्यकारणम् ? ॥३९९ ॥
आख्यन् मुनिरिदं भद्र !, विद्याधरविनिर्मितम् । विद्याधरावताराख्यं युगादिजिनमन्दिरम् ॥४०० ।। एतेषां तु महाभाग !, शृणु वैराग्यकारणम् । विन्ध्याटव्यामऽभूद् भीम-नामा पल्लीपतिर्महान् ॥४०१॥ भ्रातरः किञ्च पञ्चाऽस्य, पञ्चास्यसमविक्रमाः । तत्र कोऽप्यऽन्यदा सैन्यं, नृपसूनुर्व्यवेशयत् ॥४०२ ।। सौप्तिकं दत्तवानस्य, सैन्ये पल्लीपतिस्ततः । भग्नेऽथ तस्मिन्नुत्तस्थौ रथस्थो नृपनन्दनः ॥४०३ ॥
१. सांद्रा० TK II

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109