Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________
१५९
तरङ्ग-१५ : अगडदत्तकुमारचरितम् अथ भ्रूसञ्ज्ञयाऽऽज्ञप्त-प्रतीहारप्रवेशितः । स प्रणम्य सुखासीनः, समयज्ञो व्यजिज्ञपत् ॥३५७ ॥ साक्षाद् भवन्तं रेवन्तं सन्तः शंसन्ति संसदि । तद्देवपादान् सोत्कण्ठ-मुपतिष्ठामहे वयम् ॥३५८ ॥ परे पर:शताः सन्ति, मन्दुरा कन्दरोदरे । मद्गृहे हरयः किन्तु, तेष्वेकः पूर्णलक्षणः ॥३५९ ॥ ज्वलत् तेजोमयो मूर्त्या, जवनः पवनादपि । दोषैरशैषैर्निमुक्तो-ऽमुक्तो गुणगणैः पुनः ॥३६०॥ दुर्वारः सोऽश्ववाराणां, वारैर्विजितवाजिभिः । देवप्रौद्वैस्तमारोढुं तवैव यदि मन्यते ॥३६१ ॥ इत्युक्तस्तैः समुत्थाय, स्वयं वीक्षितलक्षणम् । अरुक्षसूक्ष्मरोमाणां, वक्रितोद्धरकन्धरम् ॥३६२ ।। पृथु पृष्ठे स्फिजि स्थूलं, वक्ष:पीठेऽतिविस्तृतम् । मध्ये क्षामं लघु कर्णे मुखेऽतिमांसतां गतम् ॥३६३॥ स्वस्वोद्देशकृतावासदर्शभिः शोभितं ध्रुवैः । ध्रुवद्वयास्मदीभूते, व्योमलङ्घनजाविकम् ॥३६४ ॥ निबडीकृतपर्याणं, परितः परिवर्द्धकैः । उत्पतन्तमिव व्योम्नि, प्रचलच्चरणच्छलात् ॥३६५ ॥ न्यस्ताङ्घ्रिः पादकटके, पर्याणाय स्फुरत्करः । तं कुमारः समारोहत् तुरङ्गं तुङ्गविग्रहम् ॥३६६॥ (पञ्चभिः कुलकम्) अश्ववारैश्च दुरि, दुर्द्धरैश्च धनुर्धरैः । स वाह्याली ययौ, सार्द्धं, पत्तिभिश्चाविपत्तिभिः ॥३६७ ।। अथायं वाहयन्नश्वं, क्रमान्नवसु वीथिषु । यावत् सञ्चारयत्येष, चक्रे तावत्प्लुताङ्गतिम् ॥३६८ ॥
१६०
कथारत्नसागरे परिवारं कुमारस्य, वाहवाहनकौशलम् । भावयन्नभितस्तस्थाववस्थाप्य तुरङ्गमात् ॥३६९॥ वाजिनं युवराजस्तं, प्लवमानं विहङ्गवत् । अवस्थापयितुं वल्गा-माचकर्ष यथा यथा ॥३७० ।। असौ तथा तथा वेग, स्पर्द्धयैव विवर्द्धयन् । क्रमेण पञ्चमी धारा-मारुरोह तुरङ्गमः ॥३७१ ॥ अथाऽश्ववारैः सम्भ्रान्तः सत्वरं वाजिनो निजाः । प्रेरयाञ्चक्रिरे पश्चाद्वेगवल्गितपाणिभिः ॥३७२।। कुमारे दूरतो गच्छत्यथचक्षुःपथातिगे । श्रान्ता ववलिरे केचित्, पुरः केचित् प्रतस्थिरे ॥३७३ ।। गत्वा पदानुसारेण, व्यावृत्तास्तेऽपि दूरतः । काननं निर्जनं नीतः, कुमारस्तुरगेण तु ॥३७४ ।। तत्रासौ चण्डमार्तण्ड-करदण्डपराहतः । खेदमेदुरितस्वेद-बिन्दुदन्तुरिताननः ॥३७५ ॥ मध्याह्ने श्रमनिष्प्राणपाणिर्वल्गां मुमोच च । तैरेव चरणापातैस्तस्थौ तत्र तुरङ्गमः ॥३७६ ॥ अधीती विपरीतायां, शिक्षायामयमित्यहो! । धिग् न ज्ञातं मया तेन, स्पष्टं कष्टं द्वयोरभूत् ॥३७७॥ विमृश्यैवमथोत्तीर्य, निष्पर्याणं विधाय तम् । बिभ्रन्मनो वनोद्देश-दर्शनोद्भुतकौतुकम् ॥३७८ ॥ श्रमप्रमीतमेतं च शोचित्वा पुरतो व्रजन् । अपश्यच्चेतसो दस्युमवनीपावनं वनम् ॥३७९।। (युग्मम्) ततश्चन्दनकर्पूर-तरुसौरभवाहिभिः । वनान्तवातैरभ्येत्य, विनीताध्वपरिश्रमः ॥३८०॥

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109