Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________
१५५
तरङ्ग-१५ : अगडदत्तकुमारचरितम् असमैः कुसुमाऽऽमोदपायुभिर्वनवायुभिः । व्यपनीतश्रमस्तस्थौ रथ एव प्रियासखः ॥३११॥ (युग्मं) यामिन्यां याममात्रायां निद्राति नृपनन्दने । निद्रावशात् प्रियाबाहुर्ललम्बेथ रथाबहिः ॥३१२ ।। दैवादारूढपूर्वीव रथाङ्गस्य पथा तदा । भुजं भुजङ्गमस्तस्या दष्टवानतिदुष्टधीः ॥३१३॥ दष्टा दष्टाऽस्मि सणेत्युक्ते निर्निद्रया तया । कुमारः स्वापमुत्सृज्य, झटित्युत्तीर्णवान् रथात् ॥३१४ ।। कुमारेणान्धकारेऽपि चक्षुर्निक्षिपता क्षणात् । दंदशूकः स निःशूकः प्रैक्षि मूर्द्धमणित्विषा ॥३१५ ॥ ततश्च विषवेगाच्च शोकावेशाच्च तावुभौ । मूर्छयाच्छन्नचैतन्यौ, दम्पती पेततुः क्षितौ ॥३१६ ॥ शीतैस्तदानीमानीत-चैतन्यो वनवायुभिः । कुमारः सञ्जजागार, न पुनस्तस्य वल्लभा ॥३१७॥ प्रयङ्क्ते यावदेवायं, मन्त्रौषधिविधिक्रमम । विषेण हतविश्वासः, श्वासस्तां तावदऽत्यजत् ॥३१८ ॥ कुमारोप्यङ्कमारोप्य, ततस्तां स्नेहमोहितः । तारतारमऽरोदीच्च करुणं विललाप च ॥३१९ ॥ हा प्रिये ! क्व नु याता त्वं हित्वा मामेककं वने । त्वां विना मम किं भोगैः? किं श्रिया जीवितेन किम् ? ॥३२०॥ वदनेन्दोः क्व ते लक्ष्मी: ? क्व ते वाचः सुधामुचः ? । कटाक्षाः क्व च ते दक्षाः ? शंस मे हंसगामिनि ॥३२१॥ ददासि किं न मे वाचं का चन्द्रवदने ! व्यथा । वृथा प्रलापिनं किं मां सवैलक्ष्यमुपेक्षसे ॥३२२॥
१५६
कथारत्नसागरे यद्वा प्रलापः पापस्य, बधिरे मधुरं वचः । येन दीर्घपथे पान्था, क्व मे सम्प्रति सा प्रिया ॥३२३ ॥ तत् तथा प्रणयप्रडं स्वयं स्वस्य समर्पणम् । तं तथा स्वजनत्यागं युद्धे बुद्धिं च तां तथा ॥३२४॥ तस्याः स्मृत्वापि हृदयं, यदिदं न विदीर्यते । नोचितं शोचितुं तत्तां किन्तु स्यादुचिता चिता ॥३२५ ॥ अथायं स्वयमुत्थाय, तत्रैव रचितां चिताम् । अह्नाय वह्निमुद्दीप्य समं वनितया तया ॥३२६ ॥ प्रवेष्टं यतते यावत् तावद्विद्याधरः पुरः । कश्चिन्निवारयामास तमसम्बन्धबान्धवः ॥३२७॥ (युग्मम्) आख्याच्च वीर! वैताढ्य-शिखाशिखरशेखरान् । गतोऽहं तीर्थयात्रार्थं रथनूपुरपत्तनात् ॥३२८ ।। दृष्टस्ततो निवृत्तेन त्वमिदानी मया सखे! । कणस्तदिदं कर्म निर्विवेकजनोचितम् ॥३२९॥ तद् भद्र! कथ्यतां तथ्यमेतत्करणकारणम् । इत्युक्तः कथयामास, कुमारस्तद्यथातथम् ॥३३०॥ स्मृत्वा विद्याधरो, विद्यामुपनीतैस्ततस्तया । कमण्डलुजलैरस्यां, गरज्वरमपाहरत् ॥३३१॥ उन्मीलन्नयनाम्भोजं प्रातरम्भोजिनीनिभाम् । तां वीक्ष्य स तदानन्द-विस्मयैकमयोऽभवत् ॥३३२ ॥ अभ्यधाच्च महाभाग ! नररत्नैर्भवादृशैः । सैषा पाषाणगर्भापि रत्नगर्भेतिभूरभूत् ॥३३३ ।। मन:खेदापनोदार्थमपि मामुपकुर्वता । त्वया सख्ये सखेदोह-माधमर्थेन निर्मितः ॥३३४ ॥

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109