Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________
१५१
तरङ्ग-१५ : अगडदत्तकुमारचरितम् त्वदीयवार्तामात्नां ततोऽस्माकं विचिन्वताम् । दिष्ट्या त्वं देव ! जीवातुरातुराणामिवागतः ॥२६३ ॥ ततोऽनुयातः सैन्येन प्रयाणैरविलम्बितैः । सैष शङ्खपुरोपान्ते स्वसैन्यं संन्यवेशयत् ॥२६४॥ उदितं तं कलावन्तं सागरा इव नागराः । आदेशेन विशांपत्युः प्रत्युज्जग्मुस्तदा मुदा ॥२६५ ॥ ततः स्फुरन्मरुल्लोलैश्चेलैर्नृत्यदिव स्वयम् । गायन् पुरवधूध्वानैः, कलितोलूलमङ्गलम् ॥२६६ ।। विन्यस्तपुष्पप्रकरैर्मुदाहसदिवाऽध्वनि । मनुष्यमालितैर्देव कुलैरुव॑मिव स्थितम् ॥२६७ ।। सभ्रूभङ्गमिवान्दोलन्नीलवदनदामभिः । उत्फुल्लचक्षुःसम्भार-मिव प्रेक्षकलोचनैः ॥२६८ ॥ कुमारः पौरनारीभि-रक्षतैरभिवर्धितः । स्फूर्जत्तूर्यरवौर्जित्य, जितपर्जन्यगर्जितः ॥२६९ ।। बन्दिवृन्दमुखप्रवद्यश:कुसुमसौरभः ।। उन्मीलन्मङ्गलो मार्गे नगरं प्रविवेश सः ॥२७० ।। (पञ्चभिः कुलकम्) उत्तीर्य सिन्धुरस्कन्धादसावुत्कण्ठितोऽलुठत् । दृशा भृशाभियातस्य तातस्य पदपद्मयोः ॥२७१ ।। दृष्टे तत्र जगन्मित्रे लोकशोकतपोपहे । हर्षलक्ष्मीर्मुखाम्भोजं भेजे भूमीभुजस्तदा ॥२७२ ॥ तातस्तु प्रातमद्याभू-दद्य पुण्यद्रुमः फली । ब्रुवन्निति सरोमाञ्चः, सस्वजे नृपतिः सुतम् ॥२७३ ।। अवोचत् वचनं वत्स !, विदेशेऽपि गतिस्तव । पुण्यैर्लक्ष्मीप्रकर्षाय, गुणोत्कर्षाय चाऽभवत् ॥२७४ ।।
१५२
कथारत्नसागरे विपत्तिरपि सम्पत्ति-हेतुः सुकृतकर्मणाम् । सम्पदं पश्य पोतस्य पतितस्य पयोनिधौ ॥२७५ ॥ राज्ञोऽनुज्ञामथाऽऽसाद्य प्रसपत्पुलकाङ्करः । असौ जनन्याः पादारविन्दवन्दनमादधौ ॥२७६ ।। मिलिते नन्दने तस्मिन् नयनानन्दनन्दने । जनन्याः शोकसन्तापः, प्राप शान्तिं समन्ततः ॥२७७ ॥ हर्षबाष्पाम्बुवर्षेण स्नपयन्तीव सर्वतः । सुतस्य देहं सस्नेहं, सा स्पृशत्पाणिना चिरम् ॥२७८ ॥ ततश्च पौराऽमात्यादीन्, भूतलन्यस्तमस्तकान् । असौ संभाषयामास, बन्धूनिव यथोचितम् ॥२७९ ।। अनुयातः स तैस्तात-निर्देशान्मन्दिरं निजम् । जगाम स नरग्राम-ग्रामणीर्मणिभूषणम् ॥२८० ॥ कदाचित् भूपतिः पुण्ये, लग्ने ग्रहबलोज्ज्वले । यौवराज्यश्रियं तस्य, तार्तीयीकी वधू न्यसन् ॥२८१ ॥ स कृतज्ञजनश्रेष्ठो ज्येष्ठां मदनमञ्जरीम् । प्रियां कमलसेनां तु मन्यते स्म लघीयसीम् ॥२८२ ।। ज्येष्ठैव वल्लभा तस्य, सा लक्ष्मीः सैव जीवितम् । धृतिः सैव मतिः सैव सैव जीवोऽप्यजायत ॥२८३ ।। शिक्षां कमलसेनापि, स्मरन्ती सततं पितुः । स्निग्धेन मनसा मेने, पतिं परमदैवतम् ॥२८४ ॥ सपत्नीमपि तामेना-ममन्यत सहोदराम् । न तस्यां विदधे स्पॉ, नाऽसूयामप्यसौ क्वचित् ॥२८५ ॥ परिच्छदे च वात्सल्यं, सन्मानं सेवकेषु च । बन्धुवर्गे च दाक्षिण्यं, पूजां पूज्ये च सा व्यधात् ॥२८६ ॥

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109