Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________
तरङ्ग-१५ : अगडदत्तकुमारचरितम् यदि वा सज्जनानां च, धनानां च विभूतयः । परस्यैवोपकाराय, विधीयन्ते स्म वेधसा ॥३३५ ।। विद्याधरोऽभ्यधादेतत्तव नोपकृतं मया । रक्षन् कृषीवलः क्षेत्रं, रक्षत्यात्मानमेव यत् ॥३३६ ।। राजपुत्रमथापृच्छय, तदा विद्याधरे गते । कामायतनमानैषीन्मन्दमन्दपदं स ताम् ॥३३७ ।। ततः स्वहस्तविन्यस्ते, प्रस्तरे पल्लवैर्नवैः । स्थापिताऽसौ कुमारेण, शीतबाधां न्यवेदयत् ॥३३८ ॥ मध्येवनमथो गत्वा, स निर्मथ्याऽरणिं स्वयम् । ज्वलनं ज्वालयित्वा च, गृहीत्वा च न्यवर्त्तत ॥३३९ ॥ विशन्नायतने तस्मिन्न-कस्मान्मन्दिरोदरे । दीपोद्योतमिवाद्राक्षीत्, झटित्येव हि मीलितम् ॥३४० ॥ असौ कृशानुं विन्यस्य, तस्याः 'श्रस्तरसन्निधौ । पप्रच्छ स्वच्छधीरेनां, दीपोद्योतनिबन्धनम् ॥३४१ ॥ युष्माभिर्चालितं ज्योतिर्यदागच्छद्भिद्भुतम् । अत्रार्यपुत्र ! शुभ्रायां भित्तौ तत्प्रतिबिम्बितम् ॥३४२ ॥ तयेत्युक्ते करे तस्याः, समासिमसौ स्वयम् । हर्तुं शीतार्त्तिमेतस्याः कृशानुमकृशं व्यधात् ॥३४३॥ अधोमुखे धमत्यग्निमस्मिन् कोशाद् बहिःकृता । पपाताऽसिलता विद्युल्लेखेव ध्वनिता क्षितौ ॥३४४ ॥ क्षोभेणाऽभ्यत्थितोऽप्राक्षीदथायं किमिदं प्रिये । साप्यूचे शीततः कम्प्रे करे कोशादसावसि ॥३४५ ॥
१५८
कथारत्नसागरे निर्गत्य पतितः क्षोणौ क्षणात् कृतझणत्कृतिः । धर्तुं यन्मे न शक्तोऽसौ जाग्रजाग्रज्वरः करः ॥३४६ ॥ (युग्मम्) ततो नि:शङ्कितः शीतं, हरन्नहाय वह्निना । चकार सप्रतीकारां, तां च खड्गलतां च सः ॥३४७ ॥ ततः प्रातः समायात-समुत्सुकपरिच्छदः । समं मदनमञ्जर्या, निजं धाम जगाम सः ॥३४८ ॥ विभज्याऽथ यथायोग्यं, दिवसं वशितेन्द्रियः । प्रमना मानयामास, स त्रिवर्गमनर्गलम् ॥३४९ ।। असार्थप्रार्थनं तीर्थमदेहद्रोहकृत् तपः । स मन्वानोऽन्वहं चक्रे मातुश्चरणचर्चनम् ॥३५०॥ अलिके तिलकं मेने, पितुश्चरणरेणु सः । अमूल्यमाल्यमाज्ञां च, शिरस्यऽन्यत्तु लौकिकम् ॥३५१ ॥ प्रमाणभूमिमानेतुं मनोरथरथं च सः । विशेषात् पोषयामास, न्यायधम्मौ धुरन्धरौ ॥३५२ ॥ 'खरलीकेलिभिठूतैः सङ्गीतैश्चित्रवल्लिभिः । कोविदानां विनोदैश्च, मुमुदे स दिवानिशम् ॥३५३॥ एवं निर्विशतस्तस्य, सुखं विषयसम्भवम् । भूयांसः सम्भरन्ति स्म, वासरा इव वत्सराः ॥३५४॥ युवराजे सभासीने, मध्ये सदसमन्यदा । लोलहारः प्रतीहारः प्रातर्नत्वा व्यजिज्ञपत् ॥३५५ ॥ कोऽप्युत्तरापथादेत्य महर्द्धिजिवाणिजः । स्त्रीयमस्वीयमादाय, देवपादान् दिदृक्षते ॥३५६॥
१. । त्रस्तरसन्निधौ-T॥ श्रस्तरन्नधौ-K॥
१. खुरलीकेलि० TII खरलीकृत०॥

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109