Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________
१२५
तरङ्ग-१४ : परद्रोहत्यागे धनचरित्रम् इमां धेनुमिवोद्धृत्य, प्रियां चण्डालपाटकात् । गृहस्थधर्ममनया, सहितस्तत्तनोम्यहम् ॥४८॥ अन्यथा तु कुलीनाया-स्तस्याः सच्चरितावधेः । भिल्लाऽपमाने मन्येऽहं, शरणं मरणं यदि ॥४९ ।। सम्प्रधार्येति मित्रेण, कलितश्चलितश्च सः । प्राप्य विन्ध्याटवी-मध्यमवन्ध्यव्यवसायभूः ॥५०॥ विशन्नस्यां कृतद्वित्र-वासरोचितशम्बलः । मित्रस्य सोऽर्पयामास, नकुली भारकारिणीम् ॥५१॥ ततश्चाग्रेसरीभूते धने शम्बलवाहिनि । पृष्ठगश्चिन्तयामास चण्डश्चण्डान्तराऽऽशयः ॥५२॥ अटवी निर्जना सैष, च्छिन्नशाखद्रुमोपमा । कृत्वाऽस्य तदकल्याणं, कुर्वे कल्याणमात्मसात् ॥५३॥ इति क्रूराशयः सोऽयं, मध्याह्नेऽथ तृषामिषात् । जीर्णावटतटं नीत्वा, धनेनाम्बु व्यलोकयत् ॥५४॥ मनोऽनुरूपं कूपस्य पश्यन् स्वच्छं पयस्ततः । चण्डेन यमदण्डेन सोऽन्तः कूपं निपातितः ॥५५॥ रक्षितः सोपि कूपेन, भूपेनेव महात्मना । स्वयमुत्सङ्गमायातः स्वल्पत्वाज्जलसन्निधेः ॥५६॥ ततस्तोयाद् विनिर्गत्य, तत्रैव तटसंस्थितः । कूपस्य पार्श्वतः पश्यन्, सोऽद्राक्षीद्विवरं वरम् ॥५७ ॥ अचिन्तयदिहस्थोऽहं शम्बलेनाऽमुना दिनान् । कियतोऽप्यतिवाह्यात्र, पुनर्द्रक्ष्ये यदि प्रियाम् ॥१८॥ इति ध्यात्वा विशंस्तत्र, मा विशेति श्रुतध्वनिः । यावदालोकते तावत् तत्रापश्यदसौ प्रियाम् ॥५९॥
१२६
कथारत्नसागरे धनश्रीरहितोऽप्यद्य, धनश्रीसहितोऽभवम् । अहो देवस्य माहात्म्य-मचिन्त्यघटनापटोः ॥६० ॥ प्रिये ! कथमसम्भाव्य-मत्रावस्थानमीदृशम् । बन्दिग्रहग्रहीताया-स्तवपल्लीन्द्रपत्तिभिः ॥६१॥ साऽऽख्यत् कुटुम्बके भिल्लै-स्तदा तस्मिन् विसूत्रिते । तस्य पल्लीशितुर्याता, ततोऽहं करगोचरम् ॥६२॥ अथ स्वशीलरक्षार्थं, व्यपदिष्टं व्रतं मया । पल्लीपरिसरस्थायि, चर्चिकाऽभ्यर्चनाविधिः ॥६३ ॥ ततोऽत्रावासिते तस्मिन्, प्रातः प्रस्थानकाऽऽकुले । कायचिन्ताच्छलेनात्मा, मया कूपे निपातितः ॥६४॥ ततस्तोयस्य तुच्छत्वा-ज्जीवन्त्यहमिह स्थिता । स्मृतपञ्चनमस्कारा, दिनत्रयमुपोषिता ॥६५॥ नमस्कारप्रदातारं, तत्त्वां मीलयताऽमुना । कृतं किं नैव दैवेन, प्रियं मां प्रति सम्प्रति ! ॥६६॥ परं तवापि कूपान्तः, पात: प्रिय ! कुतोऽभवत् । सोऽप्याख्यदागतो देशात्, ज्ञातपल्लीन्द्रविप्लवः ॥६७॥ त्वामुन्मोचयितुं गच्छन्, तृष्णातः कूपमागतः । त्वरितस्तोयमन्विष्यन्, पतितोऽस्मिन् चलत्पटः ॥६८॥ इहास्ति हस्तगं किन्तु, प्रबलं मम शम्बलम् । तदानुकूलिके दैवे, मा विषादं वृथा कृथा ॥६९॥ जयत्यत्यद्भुतं किञ्चिद्, वैभवं दैवसम्भवम् । सङ्घटन्ते झटित्येव, दुर्घटान्यपि यद्वशात् ॥७० ।। वातूलेनैव दैवेन, तूलतूलोपमः पुमान् । कदाचिन्नीयतेऽत्युच्च-रतिनीचैः कदाचन ॥७१॥

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109