Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________
तरङ्ग-१४ : परद्रोहत्यागे धनचरित्रम्
१२७ स्वच्छन्दं विदधात्येषा, केषाञ्चिद् भवितव्यता । उपायानामपायत्व-मपायानामुपायताम् ॥७२॥ ततः कूपनिपातोऽपि, जातस्त्वत्सङ्गमाय मे । अन्योऽन्यस्य वियोगे स्या-ज्जीवितं कथमऽन्यथा ? ॥७३॥ चक्रे यथेच्छं सम्बन्ध-मावयोर्भवितव्यता । तथैवोद्धरणं कूपादपि सैव करिष्यति ॥७४ ॥ सुखदु:खविधानाय, सावधाने विधौ स्थिते । मुधैव विधुरीभावं, भजन्ते हन्त जन्तवः ॥७५ ।। अथ तौ दम्पती प्रीतौ स्मृतपञ्चनमस्कृती । तस्थतुः सुस्थितप्राण-यात्रौ तत्र दिनत्रयम् ॥७६ ।। चतुर्थेऽह्नि समायाते, कैश्चित्तोयार्थिभिनरैः । कूपतस्तौ समुद्धृत्य, नीतौ सार्थेशसन्निधौ ॥७॥ सोऽपि स्वस्तिमतीवासी चिराद्देशान्तरागतः । सार्थेशः सोमको दूरा-दाश्लिष्यद्विस्मितो धनम् ॥७८ ॥ अथाऽऽख्यत् पृच्छते तस्मै, कूपान्तः पातकारणम् । तोयार्थिनः सदारस्य, स्वस्याघ्रिस्खलनं धनः ॥७९॥ अन्धता परदोषेषु, पराऽवर्णेषु मूकता । षण्ढता परदारेषु, स्वभावो हि महात्मनाम् ॥८०॥ ततः स सत्कृतस्तेन, प्रदत्तोचितवाहनः । सहैव गच्छन्नुत्तीर्णो, वाहनात् कायचिन्तया ॥८१॥ उत्सृजन् मलमेकाकी, निकुञ्जान्तर्ददर्श सः । व्याघ्राघ्रातं नरशबं, दधन्तं नकुली करे ॥८२ ॥युग्मम्॥ चण्डोऽयमित्यथो ज्ञात्वा, गृहीत्वा नकुलीं च ताम् । सशोकविस्मयं प्राप, सार्थेन स निजां पुरीम् ॥८३ ॥
१२८
कथारत्नसागरे साऽपि प्राप्य सुधावृष्टि-मिव दृष्टिं महीभुजः । वल्लीव नगरी जज्ञे, सम्फुल्लोत्सवपल्लवा ॥८४ ॥ धनोऽपि पितुरुद्धृत्य, गृहमद्भुतवैभवः । तामेनां गेहिनी मेने, देहिनीमिव सम्पदम् ॥८५॥ कुटुम्बमथ चण्डस्य, कथितव्याघ्रविप्लवः । स समाकार्य सच्चक्रे, वसनैरशनैरपि ॥८६॥ सोऽस्मरन्नित्यमादिष्टं, गुरुभिर्गच्छतः पुरा । सस्मर्यदुपकर्त्तव्य-मपकारपरेष्वपि ॥८७ ॥ स लक्ष्मीमात्मनि प्रेक्ष्य, परद्रोहपराङ्मुखे । दैवदण्डं पुनश्चण्डे विश्वस्तद्रोहकारिणि ॥८८ ॥ तदा गुरुभिरादिष्टे, विशिष्टेनान्तरात्मना । धनो दधानः श्रद्धानं, सावधानं मनो व्यधात् ॥८९॥ (युग्मम्) सविशेषं गुरुन् देवान्, सङ्घ चाऽभ्यर्थयन्नयम् । उपकुर्वन् परांश्चाप, फलं गार्हस्थ्यभूरुहः ॥१०॥ 'एनंतरेणं पुरुषोपदिष्टं दृष्टान्तमन्तर्मनसं निवेश्य । सन्तः परद्रोहमहो! विहाय, विश्वोपकारे सततं यतन्ताम् ॥११॥
इति श्रीमलधारिशिष्य श्रीनरचन्द्राचार्यविरचिते कथारत्नसागरे धनचरित्रं नाम चतुर्दशस्तरङ्गः॥
१.
एननिरेन: K॥

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109