Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________
तरङ्ग १४: परद्रोहत्यागे धनचरित्रम्
1
यत् कुर्याद् घर्षकस्यापि तापनिर्वापणं परम् । दुर्लभं लभते लोके, चन्दनं तेन चन्दनम् ॥ २४ ॥ नित्यमेव परद्रोहा-न्निवृत्तस्येह देहिनः । विपदो विनिवर्त्तन्ते, सम्पद्यन्ते च सम्पदः ॥ २५ ॥ द्रुह्यत्यपि परद्रोह - विमुखी यस्य शेमुषी । मन्ये धन्येन तेनैव पावनीमवनीमिमाम् ॥२६ ॥ श्रुतस्य तत्परं सारं, निस्यन्दस्तपसोऽपि सः सा धर्मस्य पराकाष्ठा, यत्परद्रोहवर्जनम् ॥२७॥ हेयस्तस्मात् परद्रोहः सर्वथैव सुखार्थिभिः । एकः परोपकारोऽयमुपादेयस्तु निस्तुषः ॥ २८ ॥ उपदेशं मुनीन्दोस्तं, ज्योत्स्नास्वच्छमवाप्य सः । चकोर इव सौहित्य-मत्यन्तमगमद् धनः ॥ २९ ॥ उद्यतं परघाताय कठोरं दन्तिदन्तवत् । तदानीं वेदना किन्तु चण्डमानसमानशे ॥३०॥ अथोत्थाय मुनिं नत्वा, गत्वाऽन्तर्नगरं धनः । आपणे बन्धुदत्तस्य, श्रेष्ठिनः समुपाविशत् ॥३१ ॥ गुणस्फूर्त्या च मूर्त्या च दृष्टस्तेनापि पुत्रवत् । वेश्मनीव पितुस्तस्थौ, सुस्थितस्तद्गृहे धनः ॥ ३२ ॥ स्थानभ्रंशेऽपि न भ्रश्येद्, गौरवं गुणिनां क्वचित् । मूर्धानमधिरोप्यन्ते, किं न पुष्पाणि पार्थिवैः ? ॥३३ ॥ कालेन कियताप्यत्र, व्यवहारैरनेकशः । आत्मानं बन्धुदत्तं च धनवन्तं धनो व्यधात् ॥ ३४ ॥ कदाचिदथ सोत्कण्ठ मानसः स्वपुरीं प्रति । आपपृच्छे सवात्सल्यं, बन्धुदत्तं नमन् धनः ॥ ३५ ॥
१२३
१२४
कथञ्चिदपि तेनाथ, विसृष्टः कृतसत्कृतिः । प्रभूतैः सम्भृतां टङ्कः कृत्वा नकुलिकां करे ॥ ३६ ॥ चण्डेनानुगतस्तेन, प्रणम्य श्रेष्ठिनं पुनः । सम्मान्य तत्परीवारं, नगरान्निरगाद् धनः ॥ ३७ ॥ पर्यायेण वहन्तौ तौ सुवर्णनकुलीमिमाम् ।
समं सार्थेन सुस्थेन, जग्मतुर्नगरीं निजाम् ॥३८ ॥ मनोरथरथारूढौ, यावत् प्रविशतः पुरीम् । तावत्तौ विस्मितौ भस्म - शेषामेतामऽपश्यताम् ॥ ३९ ॥ ततः परिचितं कञ्चिदपृच्छत्पुरुषं धनः । कथमित्थमवस्थेयं पुर्याः खेदाज्जगाद सः चन्द्रचूडनृपे दूर- देशदत्ताभिषेणने । एतस्यां पुरि पौरेषु विश्वस्तत्वात्प्रमादिषु ॥ ४१ ॥ इतोऽह्नि सप्तमे विन्ध्य-गह्वरोदरवासिनः । पपात पातकस्येव, सौप्तिकं पल्लिभूभुजः ॥४२ ॥ ( युग्मम् ) नष्टाः केपि हताः केपि केपि बन्दीकृतास्तदा । पतिते पल्लिनाथस्य, सौप्तिके पुरवासिनः ॥ ४३ ॥ पुरी च कुर्वती सेय-मलीकामलकामपि । दुस्थामवस्थामानीता, नीताः स्फीताश्च सम्पदः ॥ ४४ ॥ भवतोऽपि कुटुम्बेऽस्मिन् धनश्रीरेव जीविता । परं तामपि पत्नीं दु-र्बन्दिग्राहं गृहीतवान् ॥४५ ॥ इति श्रुत्वा सशोकार्त्तः, कार्त्तस्वरमनश्वरम् । भाराय तत्तदा मेने, गात्रमात्रपरिच्छदः ॥ ४६ ॥ ततः कृत्वा कुटुम्बस्य, सोऽपि पारत्रिकीं क्रियाम् । स्तोकीकृत्य स्वयं शोकं, विवेकीति व्यचिन्तयत् ॥ ४७ ॥
कथारत्नसागरे
॥ ४० ॥

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109