Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 82
________________ तरङ्ग-१५ : अगडदत्तकुमारचरितम् १४३ विसृज्येमां क्षणं यावत्, सुस्थस्तस्थौ नृपात्मजः । तावत् त्वरितमभ्येत्य, प्रतीहारो व्यजिज्ञपत् ॥१६८ ॥ देव शङ्खपुरद्वारे, रभसात् करभीश्रितौ । राजदौवारिको कौचिद्दिदृक्षेति तव क्रमौ ॥१६९ ।। पितुरुत्कण्ठया सद्य-स्तौ प्रवेश्य नृपाङ्गजः । यावदालोकते तावत्, स्वयं तेनोपलक्षितौ ॥१७० ।। सुवेगवायुवेगाख्यौ, तौ क्षितीश्वरवल्लभौ । प्रत्युद्यतौ दृशा वेगादऽभ्यागत्य प्रणेमतुः ॥१७१॥ (युग्मम्) तावालिङ्ग्य समीपे चोपवेश्य स्नपयन् दृशा । स पित्रोः कुशलोदन्तं, पप्रच्छात्यन्तवत्सलः ॥१७२ ॥ प्रत्युवाच सुवेगोऽथ, कुशलं सर्वमन्यतः । दहत्यहर्दिवं देवं किन्तु त्वविरहानलः ॥१७३ ।। वृष्टिर्नयनयोः शैत्यं, कृत्ये तापो हृदि स्थितः । सति कालत्रयेप्येवं, कालार्थी त्वां विना प्रभुः ॥१७४ ।। वचस्तदा तदाकर्ण्य बाष्पाविलविलोचनः । भूमीन्दुनन्दनोऽवादीत्, खेदमेदुरया गिरा ॥१७५ ।। पुत्रबुद्ध्या निधीयन्ते, पितृभिर्मादृशे दृशः । धिग् धिग् तैः ध्यायते मूडैस्तत्त्वतः शत्रुरूपता ॥१७६ ॥ बबूलवत् तुदन्त्येके वप्तारमपि कण्टकैः । घर्षतोऽप्युपकुर्वन्ति, केचिच्चन्दनवत् पुनः ॥१७७ ॥ पुत्राऽभिधा मुधा धात्रा, विदधे किमियं मयि । आजन्म जनितं येन, जनन्याः क्लेशवैशसम् ॥१७८ ।। जातेन शोकमेवैकं प्रापितौ पितरौ मया । सदैव सहवासेऽपि, प्रवासेऽपि दुरात्मना ॥१७९ ॥ १४४ कथारत्नसागरे महत्यपि कुले केचिद्, विरलाः कुलमण्डनम् । श्रयन्ति वंशाः सर्वेऽपि, न प्रासादध्वजश्रियम् ॥१८०॥ सुवेगोऽथाऽब्रवीदेव!, त्वं न दुःखप्रदः पितुः । दु:खयन्ति पितॄन् दोषा-स्तनुजा न निजाः पुनः ॥१८१ ।। यथैव दैवतो देव!, दोषा निःशेषितास्त्वया । पितुस्तदैव जातस्त्वं, हृदयानन्दनन्दनम् ॥१८२॥ सन्तस्त्यजन्ति दूरेण यन्मलीमसमंशुकम् । तदेव देव! सेवासु, 'वासस्तु विशदीकृतम् ॥१८३ ॥ गुणपात्रस्य पुत्रस्य प्रवासोऽपि न दु:खदः । यदसौ पुत्रपुण्योष्ण-रोचिषः पूर्वपर्वतः ॥१८४ ।। वरं स्वाभाविकगुणा-दारोपितगुणः पुमान् । अनाहताद्विनि:क्षार-तारंवासो विशिष्यते ॥१८५।। चमत्कारं करोत्युच्चैर्निर्गुणस्य गुणार्जनम् । पश्य प्रशस्यते सद्भि-विभवः स्वभुजोद्भवः ॥१८६॥ तदर्जितगुणग्राम-श्चक्षुःपीयूषपारणम् । भवान् दृष्टश्च नष्टश्च, तातस्य हृदयज्वरः ॥१८७॥ एतद्विविधसर्वस्वं, सुकृतस्य सुखस्य च । यद्विविक्तश्च भक्तश्च शक्तश्च पुरतः सुतः ॥१८८॥ यतेथास्तत्तथा नाथ ! गुणरत्लैकरोहण! | पितरौ नगरं देशं, सर्वमुज्जीवयेर्यथा ॥१८९॥ कृतार्थीकृत्य सत्कृत्य, कुमारः पितृवल्लभौ । ततो भुवनपालस्य, भूभर्तुर्भवनं ययौ ॥१९०॥ १. Kा वसते-T ||

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109