Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 81
________________ तरङ्ग-१५ : अगडदत्तकुमारचरितम् नृपसूनोर्मुखाम्भोजमम्भोजकुलबान्धवः । हर्षोत्कर्षादिव द्रष्टु-मारोहदुदयाचलम् ॥१४४॥ पद्मखण्डेषु मार्तंड-कृतं जागरणं श्रियः । दिशां शशंस सम्भ्रान्त-भृङ्गी सङ्गीतकध्वनिः ॥१४५ ।। बन्दिवद् घोषयामासुस्तं कुमारस्य विक्रमम् । वृक्षाः पक्षिकुलोन्मीलल्लोककोलाहलच्छलात् ॥१४६ ॥ प्राभातिकजगत् प्राणाऽवष्टम्भोत्तम्भितैरिव । लोकप्राणैस्तमोमूर्छा-बलं जिग्ये बलादपि ॥१४७॥ पिधायाथ गृहद्वारं कुमारः सहितस्तया । लोकेनालोकितो हास्या-दागत्य नृपमानमत् ॥१४८ ॥ अथासन्नासनाऽऽसीन:, स्तेनवृत्तान्तकीर्तनात् । राजानं रञ्जयन्नेष, चौरजामिं समापयत् ॥१४९ ॥ अहो ! बुद्धिरहो ! शक्ति-रहोभक्तिरहो कलाः । अहो धैर्यमहो शौर्य, प्राशंसदिति तं नृपः ॥१५० ॥ ततश्चामात्यमादिश्य, तच्चौरापहृतं धनम् । अर्पयामास पौरेभ्यो, यथास्वं न्यायपूर्वकम् ॥१५१ ॥ कन्यां कमलसेनाख्यां, साक्षाल्लक्ष्मीमिव स्थिराम् । तुष्टस्तस्याऽवदातेन, वदान्यो नृपतिर्ददौ ॥१५२॥ अयुतं जात्यवाहानां, सहस्रं मत्तदन्तिनाम् । कोटिसङ्ख्यं सुवर्णं च, रत्नानि वसनानि च ॥१५३ ॥ ग्रामलक्षयुतं देशं, कोशं यानासनान्यपि । अलङ्कारादिकं चास्मै, व्यातरद् धरणीधवः ॥१५४ ।। नृपप्रसादात् प्रासाद-मासाद्य विशदप्रभम् । उपाध्यायनिदेशेन, सोऽध्यास्त सपरिच्छदः ॥१५५॥ १४२ कथारत्नसागरे तमुपाध्यायमाराध्य, स्वयं दानादिकर्मभिः । चरणौ धरणीशस्य, तनूजवदपूजयन् ॥१५६ ॥ अन्यदा तं सुखासीनं, रहस्यक्षतपात्रभृत् । एत्य कात्यायनी कापि, वर्द्धयित्वैवमभ्यधात् ॥१५७ ।। भवनोपवने सिक्ता वचनामृतवृष्टिभिः ।। या त्वया श्रेष्ठिनः पुत्री, तदा मदनमञ्जरी ॥१५८ ॥ सेयं सुभग ! सर्वत्र, गीयमानमहर्निशम् । त्वदूर्जितार्जितं दन्ति-दमनं राजरञ्जनम् ॥१५९॥ चौरनिग्रहणं भूभृद्-दुहितुश्च विवाहनम् । आकर्ण्य कर्णपीयूष-वर्ष हर्षोल्लसन्मना ॥१६० ॥ त्वद्वर्धनाय मां प्रैषी-दित्युक्त्वोत्थाय सादरम् । कृतज्योत्स्नाऽनुहारं सा तत्कण्ठे हारमक्षिपत् ॥१६१॥ (कुलकम्) ऊचे च सुजनोऽसि त्वं, यदपूर्वेऽपि दर्शने । तस्या हृदि प्रविष्टोऽसि, समं गुणगणैरपि ॥१६२॥ सा पुनमें सखी मन्ये दौर्जन्यैकनिकेतनम् । त्वद्गुणैः प्रेरिताप्यागाद्, या नैवाद्यापि ते हृदि ॥१६३ ।। ततो यद्यात्मनो दोषा-देषा त्यजति जीवितम् । ततस्तेऽस्तु कथङ्कारं, भूवि भूषणदूषणम् ॥१६४ ॥ सोऽभ्यधत्त मुधा धत्से, शङ्काऽऽतङ्काकुलं मनः । मयोक्तं सह भर्तव्यं, भद्रे ! भवति नाऽन्यथा ॥१६५ ॥ वस्त्राभरणताम्बूलै-श्चैनां सत्कृत्य कृत्यवित् । तस्यै समर्पयामास, निजं रत्नाङ्गलीयकम् ॥१६६॥ किञ्चैनामऽन्वशाद् भद्रे ! स्थानके स्नेहभूरुहः । निगडं हृदयस्यैतत्, तस्याः पाणौ नियोजय ॥१६७॥

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109