Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 79
________________ १३७ तरङ्ग-१५ : अगडदत्तकुमारचरितम् अथाऽह्नि सप्तमे प्राप्ते, चिन्तयामासिवानसि । शेषमेकं दिनं तस्य, दस्योर्वार्त्तापि नाप्यते ॥१६॥ प्रतिज्ञातार्थनिर्वाह-विकलस्तस्य भूभुजः । तत्कथं दर्शयिष्यामि, सभायां म्लानमाननम् ? ॥९७ ।। समक्षं स्वामिनो येषां, भङ्गरः सङ्गरोऽभवत् । यदि तेऽप्यत्र जीवन्ति, को नामाऽन्यो मृतस्ततः ॥१८॥ बहिः पुर्या विनिर्याय, स्तेनमन्वेषयामि तत् । इति निश्चित्य चित्तेन, स यातः प्रेतकाननम् ॥१९॥ न्यग्रोधमूले तत्रासौ, निषिण्णः खिन्नमानसः । कृपाणपाणिरध्वानं, यावदालोकते पुरः ॥१०० ॥ दूरतस्तावदायान्तं, धृतकाषायवाससम् । रुद्राक्षमालालङ्कार-धारिकण्ठकराम्बुजम् ॥१०१॥ त्रिदण्डकुण्डिकाहस्तं छत्रिकाच्छन्नमस्तकम् । विशालभालमुत्फुल्ल-नासिकं शोणलोचनम् ॥१०२ ।। दीर्घजङ्घाभुजग्रीव-मतीवविकृताकृतिम् । परिव्राजकमद्राक्षीत्कुमारः स्मेरविस्मयः ॥१०३॥ (विशेषकम्) अचिन्तयच्च सोऽयं, [यत्] वेषान्तरतिरोहितः । क्रूर शूर इवाऽऽभाति, दुष्टैर्दृष्ट्यादिचेष्टितैः ॥१०४॥ तं परिव्राजकोऽप्यूचे, तत्रैवाऽऽगत्य सादरम् । को भवानीदृशं च त्वां, चिन्ता किं तापयत्यसि ॥१०५ ॥ राजपुत्रोऽब्रवीत् सिद्ध ! देशवैदेशिकोऽस्म्यहम् । दारिद्र्यगर्ता वर्तन्या, नित्यं द्यूतेन पातितः ॥१०६ ॥ दारिद्र्यं नाम माना-मनायुःक्षयजा मृतिः । अपिधानमदृश्यत्व-मनामयमपाटवम् ॥१०७॥ १३८ कथारत्नसागरे सिद्धपुत्रोऽब्रवीत् तर्हि गर्हितं तव चिन्तितम् । सति क्व मयि दारिद्र्यं हिमानीवाऽहिमत्विषः ॥१०८॥ महाप्रसाद इत्युक्ते, कुमारेणाथ तं मुनिः ।। अत्रैव स्थेयमित्युक्त्वा, गतः पितृवनान्तरे ॥१०९ ॥ तदा च मन्ये विन्यस्य, कुमारे कर्मसाक्षिताम् । स्वयं विश्रामकामः सन्, कर्मसाक्षी तिरोदधे ॥११० ॥ स्पष्टं दुष्टात्मनां दृष्टु-मन्यायाऽऽवेशकौशलम् । कौतुकादिव सञ्जाता द्यौरुन्मीलिततारका ॥१११॥ फले तदीये संपन्ने, दिवसंरूपलक्षणे । घूकैर्मूकव्रतं सद्यः, परितः परितत्यजे ॥११२ ।। शङ्के शशाङ्कादाशक्य श्रियो नाशं निशाचरात् । कोशबन्धं व्यधुः कामं सकलाः कमलाकराः ॥११३ ॥ शूरराजवियुक्तस्य, तदानीमनिवारितम् । तमो मुमोष नि:शेषां, जगतः काञ्चनश्रियम् ॥११४ ॥ तदा खड्गलतापाणि-गृहीताऽय:कुशीद्वयः । स परिव्राजकोऽभ्येत्य, कुमारमुदचालयन् ॥११५ ॥ अनुपात: कुमारेण, प्रविश्य नगरी ततः । स्मृताऽनवद्यविद्योऽसौ, पौरग्बन्धनं व्यधात् ॥११६ ॥ ततोऽसौ नगरीलोक-लोचनानामगोचरः । द्रविणेशस्य कस्यापि, क्षत्रमासूत्रयद् गृहे ॥११७ ।। ततः पेटां समाकृष्य, वस्त्राभरणसम्भृताः । स क्वापि देवतागारे कुमारसहितो नयत् ॥११८ ॥ तत्र वैदेशिकान् सुप्तानुत्थाप्य द्रव्यदानतः । स्वयमग्रेसरीकृत्य, ताः पेटास्तैरवाह्यत ॥११९॥

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109