Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________
१३५
तरङ्ग-१५ : अगडदत्तकुमारचरितम् वेगादभ्यागतः सोपि, प्रणमन् विनयोचितम् । नृपेण गाढमालिङ्ग्य, पादपीठे न्यवेशयत् ॥७२ ।। उक्तश्च वत्स! ज्ञातं ते, गुणैरेवोज्ज्वलं कुलम् । तथाप्येतद्विशेषस्य, जिज्ञासा मेऽपनीयताम् ॥७३॥ यावन्नृपसुतस्तस्थौ, लज्जाबन्धुरकन्धरः । तावत् पवनचण्डेन, स्वयमेव निवेदितः ॥७४ ।। तदीयः पूर्ववृत्तान्तस्ततो भूपतिरभ्यधात् । न साधु विहितं वत्स ! ज्ञापितोऽयं न यत् त्वया ॥७५ ॥ राज्यं त्वदीयमेवेद-मन्यथा मा स्म मन्यथाः । तमुदित्वेति सच्चक्रे, भूपतिर्भूषणांशुकैः ॥७६ ।। अत्रान्तरे प्रतीहारा-दिष्टाः प्राभृतसम्भृताः । पौराः समं समभ्येत्य, नत्वा राज्ञे व्यजिज्ञपत् ॥७७ ।। इयं त्वन्नगरी देव ! जिष्णुर्देवपुरीमपि । प्रागभूत् साम्प्रतं किन्तु, क्षुद्रग्रामटिकायते ॥७८॥ येनाऽदृष्टचरश्चौरः स्वैरः कोऽपि पुरीमिमाम् । स्वामिन् मुष्णाति पुष्णाति तव कीर्तिविपर्ययम् ॥७९ ॥ सत्यपि त्वयि यत्पुर्याः, सौख्यकर्तरि भर्तरि । दौःस्थ्यमेतदभूत् सैष, तरणौ तिमिरोदयः ॥८॥ कुपितो भूपतिः कामं तलारक्षमथाक्षिपत् ।। त्वं नियुक्तोऽसि रक्षायै, किं मयाऽऽजीविनं विना ? ॥८१ ॥ प्रसादचिन्तकः कोऽपि, मदीयो वा तवोपरि । ममाज्ञायामवज्ञां यः, कुरुते दुरितेरितः ॥८२ ।। यद्वा त्वदीयसङ्केता-देवायं विप्लव: प्लवः । स्युर्यमस्य परोक्षे हि, नाऽपत्यानां विपत्तयः ॥८३ ।।
१३६
कथारत्नसागरे तलारक्षोऽब्रवीद् देव ! प्रभौ निर्जीवनोऽस्मि चेत् । फलिते कल्पवृक्षेऽपि क्षुधितः पथिकस्तदा ॥८४ ।। सहन्ते हन्त! नान्यायं, केऽपि ते देव ! सेवकाः । किं केचिच्चान्दनास्तापं, नैवोल्लुपन्ति पल्लवाः ? ॥८५ ॥ किन्तु स्यादेष सिद्धो वा मान्त्रिको वाऽथ तान्त्रिकः । न चर्मचक्षुषां चौरो, गोचरः सञ्चरन्नपि ॥८६॥ चिन्ताचित्ते ततो राज्ञि, लोके शोकेन विप्लवे । विलक्षे च तलारक्षे, कुमारस्तारमब्रवीत् ॥८७॥ चिन्ता विमुच्यतां तात ! संश्रयः श्रूयतां मम । गृह्णामि चौरं सप्ताहान्नो चेद् वह्नौ विशामि तत् ॥८८॥ अथाऽभ्यधत्त भूपस्तं, वत्स ! स्वच्छमतिर्भवान् । गृह्यन्ते न त्वमी चौरा, प्रायो मायाविना विना ॥८९॥ तदेनमेनसां पात्रम-दृश्यं पश्यतोहरम । अहमेव ग्रहीष्यामि, निग्रहीष्यामि च स्वयम् ॥१०॥ भूमीन्दुनन्दनोऽप्यूचे, देव ! नैतत् तवोचितम् । किं व्यापारं कुठारस्य, नखच्छिद्ये पि युज्यते ? ॥११॥ मयापि तेजस्ते जैत्रं, कर्म निर्मापयिष्यति । विना भानुप्रभां कुर्यान्न दाहं दहनोपलः ॥१२॥ ततः कुमारः सोल्लासं, दत्तादेशो महीभुजा । समं पवनचण्डेन, मुदितो मन्दिरं ययौ ॥१३॥ उपाध्यायमनुज्ञाप्य, कुमारस्य पुरान्तरे । मालाकार-बूतकारा-पानकस्थानकादिषु ॥१४॥ प्रपासु वेश्यागारेषु भक्ष्यगन्धाऽऽपणेषु च । चौरमन्विष्यतः शश्वत् षट्दिनान्यतिचक्रमुः ॥९५॥ (युग्मम्)

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109