Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________
१०३
तरङ्ग-११ : लक्ष्मीधरचरितं स्फुरत्परिमलाऽऽनीतै-रुपगीतं मधुव्रतैः । तं नरं पुरतस्तस्या, सा न्यवेशयदासने ॥६॥ ततः स्वाङ्ग्रिनखन्यस्त-निस्तरङ्गविलोचना । ऊचे नृपसुता धात्रि!, मातृतुल्यासि किं ब्रुवे? ॥६१॥ किं च तातः प्रभुत्वेन, स्वैरं जल्पति यद्यदः । त्वं तु विज्ञाप्यविज्ञाभू-र्यदेतदनुमोदसे ॥२॥ तद् गत्वा ब्रूहि किं नाम, लुब्वा धर्मे चिरस्थिरम् । सत्वरं गत्वरान् प्राणान्, त्वं तात! त्रातुमिच्छसि ? ॥६३॥ अभ्युदेति दिने यस्मिन्, पश्चिमायामयं रविः ।। तदापि तस्मादन्यस्मिन्, न हि मे रमते मतिः ॥६४ ॥ शीलमेव हि नारीणा-मलङ्करणमद्भुतम् ।। शीलमेव परं रूपं, शीलमेव च जीवितम् ॥६५॥ विद्याधरोऽपि सिद्धोऽपि, देवोपि दनुजोऽपि च । सोऽपि कोऽप्यस्ति जीवन्ती, यो मां मलिनयिष्यति ॥६६॥ तद्देशा न स्पृशाम्यम्ब !, चित्तेऽपि न नरन्तरम् । जन्मान्तरेऽपि तस्यैव, चरणौ शरणं मम ॥१७॥ तूष्णीकायामथैतस्यां, धात्र्यां म्लानमुखत्विषि । कुमाररूपमास्थाय, स सिद्धः प्राह साहसी ॥६८॥ अलं खेदेन मे देहि, प्रिये ! प्रेममयीं दृशम् । सोऽहं त्वत्सत्त्वमाहात्म्यात्, उत्तीर्णो विपदर्णवात् ॥६९ ॥ कथ्यतां किन्तु तच्चैत्यात्, केनाकारणवैरिणा । एकैव त्वमिहानीता, नीतश्च स मयूरकः ॥७० ।। अथाऽसौ विस्मय-व्रीडा-हर्ष-भीति-त्वरातुरा । तदा तदात्मनो वृत्तं, सर्वं तस्मै न्यवेदयत् ॥७१॥
१०४
कथारत्नसागरे गत्वाऽथ विस्मिता धात्री, धात्रीधवमवर्धयत् । सोप्याजगाम वेगेन, तत्र जामातृसन्निधौ ॥७२॥ अभ्युत्थितस्ततस्ताभ्यां, कृताऽऽसनपरिग्रहः । अथैनं पृथिवीनाथः, प्रप्रच्छ स्वच्छया गिरा ॥७३॥ महात्मन्नात्मनो वृत्त-मशेषं मे निवेदय । कुमारोऽप्यादितोऽम्भोधि-चैत्यस्वापान्तमाख्यत ॥७४ ।। ततो गतायां त्वत्पुत्र्यां, मदीयहितहेतवे । प्रबुद्धोऽहमदृष्ट्वैनां, क्षणं स्थित्वेत्यचिन्तयम् ॥७५ ॥ किं वने विहृता सेयं, हृता किं केनचिद् भवेत् ? । ततो दिक्षुर्धान्तोऽहं, मोहं गच्छन् मुहुर्मुहुः ॥७६ ॥ अकृतार्थो निवृत्याथ, मूढोपायान्तरस्ततः । दुःखदग्धसुधावर्ष-मकार्ष जिनपूजनम् ॥७७ ॥ तत्र स्थितश्च दु:खाधि-व्याधिविध्वंसनक्षमम् । ध्यायन्पञ्चनमस्कार-मगदङ्कारमादरात् ॥७८ ॥ कुतोऽप्यभ्येत्य निक्षिप्त-नेत्रनीलोत्पलस्रजा । अभ्यर्थितः पतित्वेन, कयाचिद्दिव्ययोषया ॥७९॥ (युग्मम्) भद्रे ! कदापि नैवाऽस्मि, परस्त्रीस्पर्शपांसुरः । तदात्मानं च मां चापि, मा वृथा मलिनीकृथाः ॥८॥ किञ्च पञ्चनमस्कार-सुधा यस्य हृदि स्थिता । रागोरगविषं तस्य, किल्बिषं कुरुते कुतः ? ॥८१॥ एवं यावदिमां वच्मि, तावकोऽप्यब्रवीत् सुरः । विद्याधरोऽस्मि तुष्टोऽहं, चरित्रेण तवाऽमुना ॥८२ ॥ कुतोऽपि कुपिता सेयं, प्रेयसी मे पुरस्तव । ज्ञातं हि युवयोवृत्तं, मया प्रच्छन्नचारिणा ॥८३॥

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109