Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________
१००
तरङ्ग-११ : लक्ष्मीधरचरितं तदा च याचयामास, दास्या तं रत्नकम्बलम् । निर्बन्धेन धराधीशं, देवी मदनमञ्जरी ॥१२॥ तदाग्रहान्महीनाथाऽभ्यर्थितेन तनूभुवा । कथितं तथ्यमेवाथ, मिथ्याऽमन्यत भूपतिः ॥१३॥ ततः प्रोद्भूतकोपेन, भूपेनावमतो ययौ । कुमारः केकिनः पृष्ठ-मधिष्ठाय विहायसा ॥१४॥ पश्यन् गिरि-पुर-ग्रामा-भिरामां मेदिनीमसौ । पुरं रत्नपुरं नाम, जगामोद्दामधामवान् ॥१५॥ तत्रावतीर्य तं मोरं, स्मशानवटकोटरे । निक्षिप्य क्षिप्रमेवासौ, विवेश नगरान्तरम् ॥१६॥ तत्र कामलतानाम-वेश्यावेश्मनि तस्थिवान् । कदाचित्कल्पिताकल्पः, स पश्यन् पुरसम्पदम् ॥१७॥ कमलासङ्ख्या वामपालभूपालकन्यया । रत्नवातायनोत्सङ्ग-तरङ्गिस्फीतगीतया ॥१८॥ दृष्टः कर्णान्तविश्रान्त-तरत्तरलतारया । केतकोपान्तविश्रान्त-भ्रमरी सदृशा दृशा ॥१९ ॥(विशेषकम्) इहासि त्वमिति ख्यातुं, न्यस्तो हस्तस्तया हृदि । कुमारेणापि तद्वीक्ष्य कराब्जं मुकुलीकृतम् ॥२०॥ निशीथेऽथ मयूरेण, सौधमेत्य नृपात्मजाम् । गान्धर्वविधिनोद्वाह्य, स तत्रैवावसन्निशि ॥२१॥ प्रातर्नुपसुते याते, धात्री तद्देहचेष्टितम् । दृष्ट्वा शशंस तन्मातुः, भूभर्तुः सापि सत्वरम् ॥२२॥ धात्री धरित्रीनाथेन, तदुदन्तोपलब्धये । नियुक्ता निशि तत्रैव, निलीना वासवेश्मनि ॥२३॥
कथारत्नसागरे अथाऽऽयातस्य तस्यासौ, सुप्तस्य सुखनिद्रया । विदग्धा धातुरागेण, रञ्जयामास वाससी ॥२४॥ मुक्त्वा मयूरं स्वस्थाने, प्रातर्यातः स मन्दिरम् । प्रक्षालनाय वासांसि, रजकस्य समापर्यत् ॥२५॥ धात्रीविज्ञप्तवृत्तान्तो, नृपोऽप्यारक्षमादिशत् । विज्ञाय धात्र्यभिज्ञाना-त्तं दुरात्मानमानये ॥२६॥ सोऽपि तं रजकं वीक्ष्य, तद्वस्त्रपरिधायिनम् । कुट्टयित्वा च बद्ध्वा च, निनाय नृपतेः पुरः ॥२७॥ यथार्थे कथिते तेन, विमोच्य रजकं नृपः । कोपकम्प्रः कुमारस्य, वधायाऽऽरक्षमादिशत् ॥२८॥ स गत्वा गणिकागेहे, कुमारं सत्यवादिनम् । उद्बद्धनार्थमानिन्ये, श्मशानवटसन्निधौ ॥२९॥ स्वयमुद्बन्धयिष्यामि, मा मां स्पृशत रक्षकाः । एवमुक्त्वा कुमारोऽपि तमारोप्य वद्रुमम् ॥३०॥ ततो मयूरमाकृष्य, समध्यास्य च सिद्धवत् । स तेषां पश्यतामेव, रभसा नभसाऽगमत् ॥३१॥ तं च विज्ञाय वृत्तान्तं, साऽपि क्षितिपतेः सुता । विज्ञा विज्ञापयामास, स्वस्वरूपं पितुः पुरः ॥३२॥ ततो विमर्शबन्धेन, क्रोधवर्धनभूपतिः । तयैव सुतया साक-मन्त:सन्तापमाप सः ॥३३॥ तथैव रात्रावभ्येत्य, कुमारः स्मेरविस्मयम् । प्रियां मयूरमारोप्य, प्रतस्थे दक्षिणापथम् ॥३४॥ व्रजन्नन्तोनिधिर्मध्ये, सोऽद्राक्षीद्रलनिर्मितम् । रत्नकूटाचलोत्सङ्ग-सङ्गश्रि वीरमन्दिरम् ॥३५॥

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109