Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 58
________________ तरङ्ग -१०: नागकेतुकथा सप्तक्षेत्र्यां यैरुप्तं न न शीलं परिशीलितम् । ॥२८ ॥ भावान्न च तपस्तप्तं ऊचे च चन्दनो देयं सशीलं तु तपः शीलं भावना पावनाऽऽत्मना ॥२७॥ ततः प्रभृत्यथाकार्षीत्तपः किमपि पर्वसु । विमातरि च तत्त्याज, द्वेषमेष विशेषतः अथ पर्युषणापर्वण्यष्टमं संश्रितस्तपः । कृतसामायिकः क्वापि, तस्थौ तृणकुटीरके ॥२९ ॥ उत्तस्थौ च तदाऽकस्मात्प्रातिवेश्मिकवेश्मनि । धूमान्धकारितव्योम-ज्वालामालाकुलोऽनलः ॥३०॥ वाति प्रातीपिके वाया - वदग्धे तत् कुटीरके । वह्निमऽह्नाय चिक्षेप, विमाता तत्र मत्सरात् ॥३१ ॥ मध्यस्थपरिणामोsसौ, बद्धमानुष्यकस्थितिः । भृशोत्पन्नः सुतत्वेन, श्रेष्ठिनोऽमुष्य वेश्मनि ॥ ३२ ॥ अस्मिन्नपि भवे श्रुत्वा वचः पर्युषणेत्यऽसौ । सञ्जातजातिस्मरणः कृतवानष्टमं तपः ॥ ३३ ॥ मूर्च्छालश्च निखातोऽयं मृत इत्यम्बया सुतः । ज्ञातस्तदैव दैवाच्च प्रयुक्तावधिना मया ॥ ३४ ॥ सत्त्वतत्त्वप्रकर्षाच्च, समावर्जितचेतसा । कुतः काङ्क्षन्ति ते सुखम् ? ॥ २६ ॥ निर्द्धनेनात्र किं मया ? | कृष्टो मृत्युमुखाद् बालो, विभवश्च भवन्मुखात् ॥३५॥ एवं निवेद्य सम्प्राप्ते, धरणे धरणेस्तलम् । प्रीत्या न्यवेशयद् भूप-स्तं बालं श्रेष्ठिनः पदे ॥ ३६ ॥ प्रसादान्नागराजस्य स लेभे वैभवं यतः । नागकेतुरिति ख्यातिं ततो लोकेषु लब्धवान् ॥३७॥ ९५ ९६ गुणस्फूर्त्या च कीर्त्या च देहेन च धनेन च । क्रमेण ववृधे बालः पालयन् धर्ममार्हतम् ॥ ३८ ॥ चतुष्पव्र्व्या चतुर्मासे, तथा सांवत्सरोत्सवे । कथारत्नसागरे स चतुर्थतपः षष्ट-मष्टमं च सदा व्यधात् ॥ ३९ ॥ आराधयन्नयं ध्यानं ज्ञानं दानं दयां गुरून् । जिनांश्चाऽभ्यर्चयन् भेजे, फलं गार्हस्थ्यभूरुहः ॥ ४० ॥ कोऽप्यन्यदा पिशुनकैः शुनकैरिव दूषितः । निजघ्नेऽनपराधोऽपि, चौरङ्कारं महीभुजा ॥ ४१ ॥ विचारवञ्चिते तस्मिन् सकोपः सोऽपि भूपतौ ॥ सत्त्ववृत्त्या मृतः प्राप, जन्म भासुरमासुरम् ॥४२ ॥ प्रयुक्ताऽवधिरभ्येत्य वेगतः कुपितस्ततः । सपुरं भूपतिं हन्तुं विचक्रे विपुलां शिलाम् ॥ ४३ ॥ पुरस्योपरि तां वीक्ष्य, पिहिताम्बरभास्कराम् । लोकः शोकान्धकारान्धो, बभूव सह भूभुजा ॥ ४४ ॥ अथाऽमात्यादिभिर्विज्ञैराहूय घनमानतः । अभ्यर्थितो नागकेतु - स्तदुपद्रवविद्रवे ॥४५ ॥ सङ्घचैत्येषु वात्सल्यं, प्रीणनं प्राणिनामपि । चिकीर्षुः शुचिरभ्यर्च्य गुरुदेवपदाम्बुजम् ॥४६॥ आगत्य पौषधागारे, स कृत्वा पौषधव्रतम् । कायोत्सर्गे स्थितस्तस्यो पद्रवस्योपशान्तये ॥ ४७ ॥ युग्मम्) क्षणमात्रादथैतस्य माहात्म्यादसुरः पुरम् । प्रत्यक्षीभूय तं नत्वा, सञ्जहार शिलादिकम् ॥ ४८ ॥ ततो हर्षप्रकर्षोद्य-ल्लोलकोलाहलैर्नरैः । कृते जयजयध्वाने, नृपोऽप्यागात्तदन्तिके ॥ ४९ ॥

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109