Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________
तरङ्ग -११: लक्ष्मीधरचरितं
तत्रावतीर्य नत्वा च श्रीमद्वीरजिनेश्वरम् । वातायने विशश्राम, समं दयितया तया ॥३६ ॥ कुमारे तत्र निद्राणे, यामिकीकृत्य वल्लभाम् । अचिन्तयदियं धिग्मा-मसमस्नेहमोहिताम् ॥३७॥ न रत्नानि न ताम्बूलं यन्न भोज्यमपि स्मृतम् । गत्वा तदानये तूर्णं, यावत् जागर्ति न प्रियः ॥ ३८ ॥ इत्यालोच्य मयूरेण सा सौधोत्सङ्गसङ्गिनी । तत्कीलिकासमुद्धारं विसस्मार त्वरातुरा ॥ ३९ ॥ गते सुकृतवत्तत्र, प्रासादादथ केकिनि । देवीव गतिवैकल्यं, सापि शापादिवागमत् ॥ ४० ॥ अन्तः सन्तप्यमानाऽसौ निश्वासग्लपिताधरा । भोजनादीनि तत्याज, जीवितव्याशया समम् ॥ ४१ ॥ आर्यपुत्रः कथं भावी, स तस्मिन्निर्जने वने ? | प्रबुद्धश्चाप्यदृष्ट्वा मां किं किं सम्भावयिष्यति ? ॥४२ ॥ धिग् धिग्मे निर्विचारत्वं धिग् मे स्वच्छन्दकारिता । मृत्युनापि न हि प्रायः प्रायश्चितं तदत्र मे ॥४३॥ इति चिन्तापरामेता - मेत्य धात्रीत्यवोचत । प्रेषिता पुत्रि ! पित्रा ते, तत्राकर्णय कारणम् ॥४४॥ अद्याssस्थाने तथावस्थे, कश्चिल्लोकोत्तरो नरः । निःशङ्कोऽभ्येत्य पल्यङ्कं भेजे भूपस्य पश्यतः ॥४५ ॥ सभ्रूभङ्गमथो राज्ञा, ज्ञापितास्तद्वधं प्रति । पत्तयो नैव संजात- विपत्तय इवाचलन् ॥ ४६ ॥ अथ स्वयं विकृष्टाऽसि -र्यावद्धावति भूपतिः । तावत्तेनोदितं राजन् ! कर्णे कुरु गिरं मम ॥४७॥
१०१
कथारत्नसागरे
१०२
विक्रामता मतिमता, पुरश्चिन्त्यं चतुष्टयम् ।
कोस्म्यहं ? का च मे शक्ति: ?, कः परः ? शक्तिरस्य का? ।।४८ ।। सहसा मयि विक्रान्त - स्तदिदं मा स्म विस्मरः । स्वच्छन्दं स्वच्छमागच्छ त्वमेषां पथिपान्थताम् ॥ ४९ ॥ आधारोऽसि धरायास्त्व-मिति नैवासिना शितः ।
तन्मयि प्रह्वता युक्ता, विक्रमः क्रमते न ते ॥ ५० ॥ स्पष्टदृष्टप्रभावोऽथ, सस्नेहः प्राह पार्थिवः । महात्मन् ! ब्रूहि तद् वस्तु यत्तवाऽस्तु प्रियङ्करम् ॥५१॥ सोऽथाख्यत्तव या कन्या, प्राणेभ्योप्यतिवल्लभा । कमला कमलेवास्ति, जैत्रमस्त्रं मनोभुवः ॥ ५२ ॥ पाणौ कृत्य तदेता चेत्, कृतकृत्यो भवाम्यहम् । तत्ते राज्यं च सर्वेषां जीवितव्यं च नान्यथा ॥ ५३ ॥ नृपोप्यचिन्तयत्ताव- देकं दहति मे मनः । जामातुर्विहिते कार्ये, तात्पर्यमविचार्य यत् ॥५४ ॥ द्वितीयं तदिदं भावि यत्कन्यां दूषितामपि । पात्रायास्मै न दास्यामि श्यामिकाकारणं कुले ॥५५ ॥ स्मरानुरूपरूपेऽस्य गते लोचनगोचरम् । पुत्र्या नरान्तरद्वेषो-प्यशेष: सैष यास्यति ॥ ५६ ॥ तदेनं देवि ! कन्दर्प- रूपदर्पापहारिणम् । अत्यद्भुतप्रभावर्धि-वर्धितोद्दामसम्पदम् ॥५७॥ मया सह महीनाथ, प्रजिघाय तवान्तिके । तदमुं वीक्ष्य दक्षे! त्व- मङ्गीकुरु वरं वरम् ॥ ५८ ॥ इत्युक्त्वा प्रतिहारीभि - दत्तहस्तावलम्बनम् । विश्वव्यापिवपुर्ज्योति-द्यतिताशेषदिग्मुखम् ॥५९ ॥

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109