Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________
तरङ्ग-१३ : पुरन्दरकथा
११५ प्रज्वाल्य ज्वलनं यावद्, विधाय त्रि:प्रदक्षिणाम् । चितां विशति सा ताव-दुच्चच्चारोच्चकैर्ध्वनिः ॥२४॥ साहसं सुभु! मा कार्षीः, शृणु सुश्रोणि! मे वचः । इति कोऽपि ब्रुवन्नेता-मेत्य वेगादधारयत् ॥२५॥ मा माम् स्पृशेति साक्षेपमेतया तर्जितोऽथ सः । परं धूमान्धकारेण, न केनाप्युपलक्षितः ॥२६॥ कथञ्चिदथ लोकेन, क्षितिपेन तयापि च । पुरन्दर इति ज्ञातः, सहर्षोत्साहविस्मयैः ॥२७॥ श्रवदश्रुकणः सोऽपि, पपात नपपादयोः । नृपोऽप्यालिङ्ग्य तत्रैवो-पदिश्य च जगाद तम् ॥२८॥ किमिदं वत्स! ते वृत्तं, सोऽथाऽऽख्यत् तात! तेऽन्तिकात् । कोऽप्यदृश्यस्तदानीं मां, रभसा नभसाऽनयत् ॥२९॥ वीक्ष्याकस्मादथात्मान-महं पल्यङ्कवर्त्तिनम् । प्रातर्दिक्षु क्षिपच्चक्षु-दृष्टवान् पावनं वनम् ॥३०॥ सद्म पद्मावतीदेव्या-स्तदन्तः पश्यतो मम । सुधाबन्धुळधात् वीणा-ध्वनिः कर्णाऽध्वनि स्थितिम् ॥३१॥ ततस्तदनुसारेण, गतोऽहं द्वारमण्डपे । अपश्यं गर्भगेहान्त-र्वनितां नवयौवनाम् ॥३२॥ देव्याः पुरः स्वर-ग्राम-तान-स्थानमनोहरम् । सकलं निष्कलं चापि, कुर्वतीमुपवीणनम् ॥३३॥ अचिन्तयमहं नेद-मद्भुतं मानुषीजने ।। ततो विद्याधरी सेयं, यदि वा वनदेवता ॥३४॥ एवं च चिन्तयन्तं च कोऽप्येत्य विनयी नरः । नीत्वा मामन्यतोऽवादीत्, कुमार ! शृणु मे वचः ॥३५॥
११६
कथारत्नसागरे इहैव नातिदूरेऽस्ति, तगरानगरीश्वरः । राजा सिंहरथस्तस्य, सुता कनकसुन्दरी ॥३६॥ रूपलावण्यतारुण्य-कलाकौशलशालिनी । सानुरूपवरालाभाद्देवताऽऽराधनं व्यधात् ॥३७॥ सेयं दृष्ट्वा त्वया पद्मा-वतीपादान्तिकेऽधुना । अस्याश्च तुष्टा देवीय-मानीय त्वां वरं ददौ ॥३८॥ तदद्य सुन्दरे लग्ने, देव! केसरिनन्दनः! । पाणिपीडनमाधाय, कृतार्थय नृपात्मजाम् ॥३९॥ सौधे स मां समानीय, प्रेमसारमकारयत् । ततः कनकसुन्दयाः, पाणिग्रहमहामहम् ॥४०॥ अथ सिंहरथो राजा, पाणिमोचनपर्वणि । ददौ में स्वर्णहस्त्यश्व-वसनाऽऽभरणादिकम् ॥४१॥ तदर्पितेऽथ प्रासादे, पादातपरिवारितः ।। स्थितोऽत्रागन्तुकामोऽपि, नाऽहं विवरमासदम् ॥४२॥ अन्यदाऽवसरे लब्धे, स्मरन् वः पादपङ्कजम् । एकाकी निशि निर्गत्य, दिनैः स्तोकैरिहागमम् ॥४३ ।। इत्याकर्ण्य नृपः प्रीति-विस्मयोत्फुल्ललोचनः । सुतेन सार्द्धं वध्वा च, प्रीतया प्राविशत् पुरीम् ॥४४॥ ततः पुनर्नवोत्साहो, महोत्सवपुर:सरम् । एतयोः कारयाञ्चक्रे, पार्थिवः पाणिपीडनम् ॥४५॥ अथ सिंहरथस्यापि, कृत्वा मन्त्रिभिरौचितीम् । तां वधूं च विभूतिं चा-5ऽनयन्नयपथाध्वगः ॥४६॥ यौवराज्यश्रियं दत्त्वा, कुमाराय नराधिपः । कामपालनृपामात्यानपि हृष्टान् विसृष्टवान् ॥४७॥

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109