Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 66
________________ तरङ्ग-१२ : अदत्तादाने वीर्यरामकथा सत्यतानिर्णयं कर्तु-मक्षमः स क्षमापतिः । द्वावप्येतौ स्वयं गत्वा, जलदिव्यमकारयत् ॥६०॥ धर्मेण दिव्यशक्त्या च, शुद्धौ तत्रापि तावुभौ । ततो विलक्षः क्षोणीशः पटहं पर्यघोषयत् ॥६१॥ यः कश्चिन्निर्णयत्येकमेतयोः सत्यमन्त्रिणम् । तस्मै कोटिं सुवर्णस्य, त्वरितं वितराम्यहम् ॥१२॥ न्यषेधयद्वीर्यराम-स्तं भीमनपसन्निधौ । पृष्टोऽवादीत्करिष्येऽहं, सत्यासत्यविनिर्णयम् ॥६३॥ ततो नृपेण मन्त्रिभ्यां, सभ्यैरपि पुरस्कृतः । वीर्यरामो जगामोच्चै-मण्डलं चण्डरोचिषः ॥६४॥ तत्र चास्थानमास्थाय, पुरस्तस्थुषि पार्थिवे । सूर्यस्य सम्मुखो कृत्वा, मन्त्रिणो निजगाद सः ॥६५॥ स्वकीयसत्यमाहात्म्या-दादित्यप्रतिमामिमाम् । यः कश्चिदानयेदत्र, सत्यमन्त्री स निश्चितम् ॥६६॥ अथौत्सुक्येन यक्षस्तां, प्रतिमां स्वप्रभावतः । नृपान्तिकमुपानिन्ये, सभ्यैः साक्षेपमीक्षितः ॥६७॥ वीर्यरामो नृपं प्राह, साहसी कोऽप्यसौ सुरः । न देव! मानवः सत्यो-ऽप्याहतु प्रतिमां क्षमः ॥६८॥ छलितोऽस्मीति यक्षोऽपि, क्षणेनादृश्यतां गतः । हष्टोऽथ मन्त्री सत्कृत्य, तस्मै स्वर्णमदापयत् ॥६९ ॥ अथोवाच नृपो मन्त्रीन्, इन्द्रजालं किमप्यदः । असौ वैदेशिकश्चक्रे, तन्नदेयमिदं त्वया ॥७० ॥ इत्युक्त्वा नृपतौ याते, जाते म्लानानने जने । वीर्यरामोप्यगाद् देहं, नि:सन्देहं वहन् मुदम् ॥७१ ॥ नृपः सच्चरितेनान्तर्विस्मृतोऽप्यतिलोलुपः । तदीयछिद्रमन्वेष्टु-मादिशद्दण्डपाशिकम् ॥७२॥ ११२ कथारत्नसागरे विचारभूमावस्येदं, विनिधायांगुलीयकम् । गृहीतेऽत्र ततश्चौरं, कृत्वा बध्वा तमानयेः ॥७३ ॥ तथाकृते तलारक्ष-र्वीयरामो महामनाः । कथञ्चिच्छलितो नैव, क्व छलं विमलात्मनाम् ॥७४ ।। तथैव कथिते तैश्च, तच्चरित्रैश्चमत्कृतः । तमाह्वयन्निजावासे, श्रेष्ठिना सहितं नृपः ॥७५ ॥ जगाद च महासत्त्व !, त्वादृशैः पुरुषोत्तमैः । धार्मिकैः प्रियते धात्री, न पुनर्भूभुजां भुजैः ॥७६ ।। परद्रव्येष्वदत्तेषु, येषां न रमते मतिः । तानेव देवतान्याहु-र्जनानां मनुजानपि ॥७७ ॥ इति स्तुत्वार्पयित्वाऽस्मै, मुकुट मेदिनीपतिः । सर्वांगीणमलङ्कारं, स्वर्णकोटिं च दत्तवान् ॥७८ ॥ आपृच्छ्य नृपमन्येद्युः, सम्पूज्य श्रेष्ठिनं च सः । भूरिवैभवसम्भारः, काम्पिल्यनगरं ययौ ॥७९॥ अभ्यर्च्य चरणौ पित्रोः, समर्प्य मुकुटं च सः । मूलतो मौलिलाभान्तं, स्ववृत्तान्तमचीकथत् ॥८०॥ विशेषादेष नि:शेष, व्यानशे द्वादशव्रतीम् । दृष्टोज्ज्वलफलं कर्म, नाऽऽराधयति कः सुधीः ? ॥८१॥ श्रीवीर्यरामचरितं दुरितापहारिहारश्रियं दधदिदं विनिधाय कण्ठे । सन्तः परस्वहति वर्जनकङ्कणेन; लोकोत्तरेण करमण्डनमातनुध्वम् ॥८२॥ इति मलधारि श्रीदेवानन्दसूरिशिष्यश्रीनरचन्द्रसूरि कृते कथारत्नसागरे वीर्यरामचरितं नाम द्वादशस्तरंगः॥

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109