Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________
१०६
कथारत्नसागरे
तरङ्ग-११ : लक्ष्मीधरचरितं
१०५ यस्य शत्रौ च मित्रे च, रोषस्तोषश्च निष्फलः । स एष पुरुषो मातुः, पुरीषमिति कथ्यताम् ॥८४ ॥ तन्महात्मन् ! गृहाण त्वं, विद्यां गगनगामिनीम् । रूपान्तरकरी स्वाप-दायिनी च मयार्पिताम् ॥८५ ।। एवमुक्त्वाऽथ तिस्रोऽपि, दत्त्वा विद्याः ससिद्धिकाः । स यातोऽहमिहायातो, रूपान्तरधरः पुरे ॥८६॥ प्रियानुरागज्ञानाय, तच्चैतच्चेष्टितं मया । सर्वमेतन्महीनाथ!, क्षम्यतां चरितं त्वया ॥८७॥ विभाव्यैवं भुवो भर्ता-जामातुश्चरिताद्भुतम् । भाग्याद्भुतं सुतायाश्च, बभूवानन्दगद्गदः ॥८८॥ सभासमक्षं सन्मान-दानैः सत्कृत्य कृत्यवित् । कौमारश्रियमप्यस्य, चकार सहचारिणीम् ॥८९॥ मन्त्रराजस्य माहात्म्य-मात्मन्येवावलोक्य सः । तमेवाराधयद् ध्यान-प्रभृतिप्राभृतार्पणैः ॥१०॥ धर्मादत्यागतां लक्ष्मी, धर्म एव नियोजयेत् । असौ धर्मस्य लक्ष्म्याश्च, विततान न तानवम् ॥११॥ पितुश्च श्वसुरस्यापि, तपसश्च शिवस्य च । स धर्माराधनालुब्ध-श्चतस्रोऽपि श्रियः क्रमात् ॥१२॥
लक्ष्मीधरस्य चरिताद्भुतकीर्तनेन, कर्णामृतेन शमितान्तरतापतापाः । मन्त्राधिराजजपदानतपःप्रकार
राराधयन्तु सुधियस्त्रिविधेन धर्म ॥१३॥ इति श्रीमलधारि श्रीदेवानन्दसूरिशिष्य-श्रीनरचन्द्रसूरिविरचिते
कथारत्नसागरे लक्ष्मीधरचरितं नामैकादशस्तरङ्गः॥
अदत्तादाने वीर्यरामकथा तरङ्गः - १२ अप्रदत्तं परद्रव्यं, हृतं परिहृतं च यैः । दुःखिनः कालवद्वीर्य-रामवत् सुखिनश्च ते ॥१॥ काम्पील्यनगरस्वामी, चक्रेश्वरनरेश्वरः । आसीदासीमभूमीश-मौलिखेलितशासनः ॥२॥ तस्याऽर्जुन इति ख्यातो-मन्त्री विजितवाग्पतिः । वीर्यरामाभिधस्तस्य, सुतः श्रुतपयोनिधिः ॥३॥ अन्यदा सदने तस्य, सभासीनस्य मन्त्रिणः । एत्य राजपुमान् कोऽपि, मुकुटं न्यस्तवान् करे ॥४॥ दक्षिणक्षोणिपालेन, तदेतत् प्राभृतीकृतम् । समारचय्य मन्त्रीश ! कोशवेश्म प्रवेश्यताम् ॥५॥ इत्युक्त्वाथ गते तस्मिन्, सुतस्यासन्नवर्तिनः । समर्प्य मुकुट मन्त्री, वैयग्यादन्यतो ययौ ॥६॥ वीर्यरामेऽर्थशास्त्रार्थ-चिन्तनापन्नचेतसि । तदासन्नासने मुक्तं, दासः कालाभिधोऽहरत् ॥७॥ उत्तिष्ठन् मन्त्रिपुत्रोऽथ, तत्सर्वत्राऽगवेषयत् । अदृष्टवा च ततः खिन्नो, विषण्णश्चाप्यवस्थितः ॥८॥ सचिवः सायमायातः, श्रुत्वा तत्सुतचेष्टितम् । तं ददाह हतोत्साहः, किल्बिषैरिव वाग्विषैः ॥९॥ दुराचार ! कुलाङ्गार!, जाताभूत्पुत्रिका वरम् । न पुत्रस्त्वादृशः शास्त्र-ग्रहग्रहिलतां गतः ॥१०॥ वीर्यरामस्तदित्युच्चै-र्जनकेनावमानितः । निर्गत्येको दिनैः कैश्चित्, इन्द्रप्रस्थपुरं ययौ ॥११॥
१. पङ्गवा अपि पुङ्गवः ||

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109