Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________
तरङ्ग-९ : शारदासौहार्दम्
यावन्मनुष्यजन्मेदं मान्यं ज्ञानवतामपि ।
निःसामान्यो विवेकश्च यावन्मनसि वर्त्तते ॥ ३४४ ॥ यावत् प्रज्ञा च लक्ष्मीश्च धर्म्मबुद्धिश्च वर्त्तते । यावच्च मनसा श्रीमान्, वीतरागो विभाव्यते ॥ ३४५ ॥ तावद् यत्कृत्यमश्रान्तं पुरुषेण सुबुद्धिना । तत् सर्वं देवपूजादि, व्यक्तं विज्ञायतां त्वया ॥ ३४६ ॥ धर्महेतुषु शेषेषु विसंवादः परस्परम् । दर्शनानां समस्तानां, दयायां सम्मतिः पुनः ॥ ३४७ ॥ सौभाग्याऽऽरोग्य - दानादीन्, तद्गुणान् गणनातिगान् । सोऽपि विश्वप्रभुः शास्ता, धर्म्मशास्त्रेषु शंसति ॥ ३४८ ॥ हृदि श्रद्धामनाधाय तपोदानपुरःसरैः । कृतैरप्युपचारैस्तैर्न स्याद् धर्म्माऽतिनिर्मलः ॥ ३४९ ॥ कीर्त्तितं यच्च पत्रेषु प्रभोः शासनलेखनम् । तदिदं तत्त्वशास्त्राणां ज्ञेयं पुस्तकलेखनम् ॥३५० ॥ विद्वद्भिर्याच्यमानेषु पुस्तकेषु च सर्वतः । कृत्याकृत्यविधावाज्ञा, ज्ञाप्यते भुवनप्रभोः ॥३५१ ॥ एवं च चिन्तितं स्वस्य क्रोधादीनां च लाघवम् । गौरवं च शमादीनां विषयाणां च बाह्यताम् ॥३५२ ॥ पूजनं च जगद्भर्तु ब्रह्मज्ञानवतां तथा । दानशीलतपोभावै-र्द्धर्मस्याराधनामपि ॥ ३५३ ॥ कृपापात्रेषु सत्त्वेषु दयां चाऽत्यद्भुतोदयाम् । धर्मकर्मविनिर्माणं, किञ्च श्रद्धानपूर्वकम् ॥ ३५४ ॥ धर्मोपदेशशास्त्राणां, लेखनाद् वाचनादपि । जनस्य च समस्तस्य कृत्याकृत्यप्रकाशनम् ॥३५५ ॥
९१
९२
कथारत्नसागरे
विवेकपूर्वकं कुर्वन्, शुद्धबुद्धिमयः पुमान् । प्राप्नोति पुण्यमाहात्म्याद् योगविक्रममद्भुतम् ॥३५६ ॥ ततश्च जयति व्याधि-जराप्रभृतिशात्रवान् ।
तथा चाप्नोति मर्त्येषु, जीवन्मुक्तः परं पदम् ॥३५७ ॥ ततश्च परमां मुक्तिं, देहादित्यागतो गतः । शाश्वतीं लभते श्रेष्ठां प्रतिष्ठां परमात्मसु ॥३५८ ।। इन्त्यन्तरङ्गभङ्ग्यैव, सुबुद्धीनां महात्मनाम् । पुरुषाणां चरित्रं ते, पुरतः परिकीर्त्तितम् ॥ ३५९ ॥ विहाय बालिशानां च मध्यमानां च वर्त्तिनी । तन्नाथ ! त्वं सुबुद्धीनां भजेथाः पथि पान्थताम् ॥ ३६० ॥ एवं प्रबोधितः पुण्य-कर्मणे शर्ववर्मणा । सानन्दमानसो जात:, शातवाहनभूपतिः ॥३६१ ॥ तथेति प्रतिपद्याथ तत्तथैव समाचरन् । जगदानन्दयामास, यशः कुसुमसौरभैः ॥३६२॥ इत्थं त्रिवर्गसम्पत्ति-मद्भुतामधिगम्य सः । चतुर्थपुरुषार्थेऽपि प्रतिष्ठां प्राप्स्यति क्रमात् ॥३६३ ॥ भक्त्या च कृतसत्कारः, करीन्द्रतुरगोत्तरम् । दिदेश मण्डलाधीश सम्पदं शर्ववर्मणे ॥३६४ ॥ एतस्मादिति शातवाहनमहीभर्तुश्चरित्रामृतात्, लब्ध्वा वैबुधसम्पदं सहृदय श्रेणीशिखाशेखराः । लक्ष्मी-शारदयोर्विरोधमधिकं निर्धूय सबुद्धयः । सन्तः सन्ततमेव सन्तु पुरुषश्रेष्ठप्रतिष्ठास्पदम् ॥३६५ ॥
इति श्रीमलधारिशिष्य श्रीनरचन्द्राचार्यविरचिते कथारत्नसागरे श्री शारदासौहार्दनाम नवमस्तरङ्गः ॥

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109