Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________
तरङ्ग ९ : शारदासौहार्दम्
धीमतो धनदुःस्थस्य, प्रस्थितस्य दिगन्तरम् । क्वापि ग्रामे निवासाय स्थानमप्यतिदुर्लभम् ॥३२० ॥ गुणी हि द्रव्यसम्पन्नः, पुरुषो नयनामृतम् । सुभगः पुण्यसम्पूर्णो, यशस्वी च भवेत् ध्रुवम् ॥३२१ ॥ तथा च जायते सोऽयं सेवनीयो विवेकिनाम् ।
तस्य सर्गाद् विवेकस्य, विवेके च विमर्शे च वर्द्धत श्री सरस्वत्यौ तस्य धर्मप्रभावतः ॥ ३२३ ॥ विवेकविकलैः कौल-प्रमुखैर्ज्ञानमानिभिः । लोकैर्यदुपदिष्टं तद्, व्यक्तमेव विभाव्यते ॥ ३२४ ॥ श्रीमतां ह्यविवेकानां, स्वप्रभुत्वाऽभिमानिनाम् । स्याद् धर्मं प्रति वैमुख्यं दौर्मुख्यं धार्मिकेषु च ॥३२५॥ धूर्त्तादिजनितां चैषां वञ्चनं स्पष्टमीक्ष्यते ।
भवति स्वच्छता ततः ॥ ३२२ ॥ तत्त्वज्ञाने च निर्मले ।
तल्लक्ष्म्याश्चापि डोम्बादि - गीताद्यर्थमसद्यशः ॥ ३२६ ॥ धूर्तादि वञ्चनं प्रोक्तं, विवेकेन विना श्रियः तल्लक्ष्म्या निर्विवेकानां, क्षयः प्रायश्च शोचनम् ॥३२७ ॥ सुबुद्धिश्च विवेकी च, शास्त्रज्ञश्च धनी च सन् । मुनिप्रमुखलोकेषु, शास्त्रमार्गानुगामिषु ॥३२८॥ सत्कारादीनि कुर्वाणो भक्तिश्रद्धानपूर्वकम् । तदादेशानुवर्ती च, वर्द्धयत्येव भारतीम् ॥ ३२९ ॥ ( युग्मम्) शास्त्रार्थविदुराश्चास्य, सदाचारप्रशंसनात् । सत्पथस्थापनाद्दुष्ट-कथायां सङ्गरक्षणात् ॥ ३३० ॥ धर्मे नियोजनाद्युक्त्या, चाऽपात्रव्ययवारणात् । स्वोपदेशे सुधापानैर्वर्द्धयन्तितरां श्रियम् ॥३३१ ॥ ( युग्मम्)
८९
कथारत्नसागरे
९०
तेन लक्ष्मी-सरस्वत्यो- रन्योन्यस्य विवर्द्धनम् । धर्मस्य चाऽधमर्णत्वं सुबुद्धिं प्रति कीर्त्तितम् ॥ ३३२ ॥ एवं च वर्तमानस्य नरस्य मतिशालिनः । धर्म्माद् वाञ्छितसंसिद्धि-र्यशश्च भवति ध्रुवम् ॥३३३ ॥ एवं त्रिवर्गसम्पत्तेरपि जानन्ननित्यताम् ।
शाश्वताय पुमर्थाय चतुर्थाय स्पृहां वहन् ॥ ३३४ ॥ ( युग्मम् ) स सुबुद्धिर्निशाशेषे, प्रसन्नीभूतचेतनः । विवेकवशतः सर्वं यत्करोति तदुच्यते ॥ ३३५ ॥ देहादिभिन्नमात्मानं कुलं पूर्वापरौ भवौ ।
आचारं गुणरत्नानि शक्त्याद्यं च विचारयन् ॥३३६ ॥ दुश्चेष्टितैः कषायाणां नरके दुःखमात्मनः । परमात्माप्रसत्तिश्च व्यक्तमेव विभाव्यते ॥ ३३७ ॥ प्रभुत्वं गृहिणां न स्यात् क्रोधाऽद्यभिनयं विना । क्रोधादेर्लाघवं बाह्यानुवृत्तिश्च तदुच्यते ॥३३८ ॥ गीतादिविषयग्रामे, पुण्यादुपनते सति । आसक्तिवर्जनादुक्तं, बहिर्वृर्त्याऽवलोकनम् ॥ ३३९ ॥ सुखलेशेन विश्वास्य, गेयकृद्गणिकादयः । धीमतोऽप्यविवेकस्य, जिहीर्षन्ति श्रियं गृहात् ॥ ३४० ॥ कलाज्ञानवशाच्चैते, स्युः सुवर्णाद्यलङ्कृताः । तत्तारामैत्रकं प्रोक्तं तेषां सह सुभोगया ॥ ३४९ ॥ व्याधिप्रभृतिशत्रूणां चेष्टितं यदुदीरितम् । तदिदं भवता देव ! स्वयमेवाऽवबुध्यते ॥ ३४२ ॥ तद्धर्मानुग्रहाद्यावन्न रोगाद्या भवन्त्यमी । यावच्चेन्द्रियवर्गोऽयमात्मनोऽस्ति वशंवदः ॥३४३ ॥

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109