Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________
८६
कथारत्नसागरे
तरङ्ग-९ : शारदासौहार्दम् तन्मध्ये केऽपि विद्वांसः, श्रीमन्तोऽपि च केचन । प्रत्येकं तत्कृतं प्रोक्तं, तेन सम्भाषणं तयोः ॥२७२ ।। बभूवुस्तत्र विद्वांसः, केवलं भारतीमया । वृथाप्रायाः पुनः केऽपि, केवलं कमलामयाः ॥२७३ ।। तत्संलापात् तयोस्तेन, तन्मयत्वमुदाहृतम् । दुर्विदग्धाद्वये चैते, गताश्चैतन्यशून्यताम् ॥२७४ ।। पाण्डित्यग्रहिला: केऽपि, केऽपि श्रीग्रहिलास्ततः । जातास्तद्विस्मृतात्मानः, कृत्याज्ञानादिदूषिताः ॥२७५ ।। एतेषामुभयेषां च, येऽहङ्कारपुरस्सराः । निःशेषाः ख्यापिता दोषाः, प्रत्यक्षा एव ते ध्रुवम् ॥२७६ ॥ ये तु केचिन्महात्मानः प्रसन्नमतिवैभवाः । तेषां वर्गः समग्रोऽयं, सद्बुद्धिरिति वर्णितः ॥२७७॥ स च धर्मप्रभावेन गुणवान् धनवानपि । तत्प्रोक्तः श्री-सरस्वत्यो-स्त्वत्समीपे समागमः ॥२७८ ॥ किञ्चायं वेत्ति शास्त्रेण, लक्ष्मीदोषानशेषतः । सुलोचनाकृतं तेन, तद्दोषाख्यापनं मतम् ॥२७९ ॥ अभेदश्चात्र विज्ञेयः, श्रीमतां हि श्रिया सह । ततश्च श्रीमतां दोषाः, श्रीदोषत्वेन कीर्तिताः ॥२८॥ क्रोधौद्धत्यादयो ये तु, दोषाः प्रज्ञापिताः श्रियः । ते साक्षादेव वीक्ष्यन्ते, श्रीगर्वग्रहिलात्मताम् ॥२८१॥ ते च शास्त्रस्य नामापि, न क्षमन्ते कथञ्चन । किञ्च दृष्टेपि शास्त्रज्ञे, प्रकामं दधति क्रुधम् ॥२८२ ॥ स्पष्टं च लक्ष्मीलोलानां, दृश्यन्ते मूढचेतसाम् । परदार-परद्रव्य-परद्रोहप्रवृत्तयः ॥२८३ ॥
तथास्थिताश्च ते लक्ष्मी-लुब्धाः स्युर्धर्मघातिनः । श्रियः स्वजनकध्वंस-हेतुता वर्णिता ततः ॥२८४ ॥ श्रीमन्तो विदुषां दोषान्, प्रवदन्ति कदाचन । ततः सुलोचनादोषाः, सुभोगोद्भाविता मताः ॥२८५ ।। ऐक्यं च सह भारत्या, शास्त्रं शास्त्रवतां मतम् । ततश्च तत्कृतं सर्वं, भारतीकृतमीरितम् ॥२८६ ॥ चापलप्रमुखा दोषाः, ख्याप्यन्ते कविभिः श्रियः । प्रोक्ता ब्राह्मीकृता तेना-ऽयश:पटहघोषणा ॥२८७ ।। श्रीमन्तः सत्यमेवैते, जठरोपस्थदुःस्थिताः । विवेकिभिर्विलोक्यन्ते, वस्तुतोऽवस्तुसन्निभाः ॥२८८ ॥ अन्यायैरावणादीनां, दर्शितं यन्निदर्शनम् ।। कवीनां परपैशून्य-दोषः प्रख्यापितस्ततः ॥२८९ ॥ लोभश्च सागरो नाम्ना, दुष्पूरत्वेन वर्णितः । अवश्यं श्रीमतां भावी, श्रियः सहचरस्ततः ॥२९॥ श्रीवङ्ख्या वृद्धिरेतस्य, लाभाल्लोभस्य वर्धनात् । जगज्जयित्वं विश्वेऽपि, तदादेशानुवर्तनात् ॥२९१ ॥ लोभस्योच्छेदनं तत्त्व-ग्रन्थे यदुपदिश्यते । तदेनं प्रति भारत्या, वैरियन्त्रप्रकल्पितम् ॥२९२ ॥ यद् विद्या विस्मरत्यन्य-व्यापाराक्षिप्तचेतसः । ईर्ष्णयाराधकत्यागदोषो ब्राह्मास्तदीरितः ॥२९३॥ तुच्छात्मनां विकाराय, प्रौढाश्रीन महात्मनाम । इति प्रोक्तमहं प्रौढा विकुर्वे वा न वा क्वचित् ॥२९४ ।। स्वल्पपाठः पठन् कूट, सभायां को न हस्यते ? । तेनोक्तमेषा बालापि, विगोपितवती न काम् ? ॥२९५ ॥

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109