Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 52
________________ तरङ्ग-९ : शारदासौहार्दम् अथोचे विस्मयस्मेरः, शातवाहनभूपतिः । सुबुद्धिः सैष मन्त्रीश!, कुत्र सम्प्रति वर्तते ॥२४९ ।। तद्दर्शनार्थमत्यर्थ-मिदमुत्कण्ठते मनः । तादृक् पुरुषयात्रा हि, तीर्थयात्राधिका मता ॥२५० ॥ दृष्टव्यः सोऽप्युपाध्याय-स्ते चोभे सचिवात्मजे । स चामात्यः स च मापः, पापप्रशमनौषधम् ॥२५१॥ उवाच सचिवः स्वामिन् !, मा स्म खेदं कृथा वृथा । सर्वेऽप्यत्रैव ते नित्यं, सन्ति सन्निहितास्तव ॥२५२ ।। अवादीन्नृपतिर्मन्त्रिन्, किमद्भुतमिवोच्यते । सोऽप्यवोचत्तवाप्यग्रे, नाथ! किं कथ्यतेऽन्यथा ? ॥२५३॥ किन्तु श्रुतमिदं देव!, सुबुद्धेर्यत् कथानकम् । प्रकाश्यमानमस्यैव, रहस्यं शृणु सम्प्रति ॥२५४ ।। अत उपनय: यत्सुप्रतिष्ठितं प्रोक्तं, पुरं तज्जन्म मानुषम् । इहैव देहिनो येन, गुणिमध्ये प्रतिष्ठिताः ॥२५५ ॥ नराणामीश्वरस्तत्र, सर्वज्ञो भुवनप्रभुः । रागादिरिपुजेतृत्वा-दूर्जितः सुस्थितश्च सः ॥२५६॥ कृतप्रतिष्ठस्तेनायं, तदाराधनवर्द्धितः । धर्मो दानादिकस्तस्य, सचिवत्वेन वर्णितः ॥२५७ ॥ समाख्याताः क्षितीशस्य, सचिवस्य च ये गुणाः । समस्तस्यापि लोकस्य, विदिता एव ते स्वयम् ॥२५८ ॥ मर्त्यजन्मनि जीवो यः, सुबुद्धिः साधुबुद्धितः । गुणैः श्रेष्ठैरुपेतत्वा-दसौ श्रेष्ठीति कीर्तितः ॥२५९॥ कथारत्नसागरे सुलोचनेति या प्रोक्ता, सेयं देवी सरस्वती । जायते येन जन्तूनां, शुभमालोचनं तया ॥२६०॥ सुभोगेत्यभिधानाच्च, लक्ष्मीरेवावगम्यताम् । तस्यामेवाद्भुतो भोगः, सम्भवेद् भविनां यतः ॥२६१ ॥ भारती हि वचोरूपा, लक्ष्मीश्च वचनानुगा । ततः सरस्वती ज्येष्ठा, कनिष्ठा श्रीरुदाहता ॥२६२ ॥ उत्पत्तिधर्मतो यस्मात्, तद्धर्मो जनकस्तयोः । द्वयोः सहानवस्थानात्, परस्परविरोधिता ॥२६३॥ निर्बुद्धैः क्षीयते लक्ष्मी:, नि:श्रीकस्य सरस्वती । इत्यन्योन्यविरोधेन, तयोर्द्धर्मस्य च क्षयः ॥२६४ ॥ सा लक्ष्मी रती सा च, शोच्यते तत्त्वकोविदैः । ये चिरोपचितस्यापि, धर्मस्य क्षयकारणम् ॥२६५ ।। येन धर्मवशादेव, सर्वत्रगमनं तयोः ।। सभ्याभिगमनं तेन, ताताऽनुज्ञातमुच्यते ॥२६६ ।। ये चाऽऽख्याताः पुरे तत्र, वास्तव्याः श्रेष्ठिनस्त्रयः । ते मनुष्यास्त्रिधा मूर्ख-मध्यबुद्धि-सुबुद्धयः ॥२६७॥ श्वभ्र-तिर्यग्-नृ-देवेषु, श्रवणेन्द्रियशालिषु । मोक्षाङ्गव्यवहारस्य, विज्ञत्वात्ते धुरन्धराः ॥२६८ ॥ शिल्पिकौटुम्बिकाद्या ये, तत्र कर्मोपजीविनः । तेषां स्तोमः समस्तोऽपि, बालिशोऽयमुदाहृतः ॥२६९ ॥ तेषां च कर्मवृत्तीनां, स्वस्वकर्मणि कौशलात् । भुक्तिमात्रार्जनाच्चोक्तो, बालिशाभिगमस्तयोः ॥२७० ।। विप्र-क्षत्र-वणिक्प्राया, ये तु मध्यमबुद्धयः । तदीयराशिः सर्वोऽयं, मध्यबुद्धिः प्रकीर्तितः ॥२७१॥

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109