Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 57
________________ तरङ्ग-१० : नागकेतुकथा तपधर्मे नागकेतुकथा : तरंग:-१० कार्यं निःशङ्कमातङ्क-पङ्कग्रीष्मातपस्तपः । यस्मात् कल्याणसम्पत्तिः, कस्य नो नागकेतुवत् ॥१॥ नगरी चन्द्रकान्तेति, विख्याताऽस्त्यत्र भारते । यां रामणीयकाऽऽक्षिप्ता, शिश्राय श्रीरहर्दिवम् ॥२॥ श्रीमान् विजयसेनाख्यः, क्षमापतिस्तामपालयत् । दृशापि नाऽऽहता यस्य, सेना केनापि वैरिणा ॥३॥ तत्र श्रीकान्तनामाऽस्ति, श्रेष्ठी पुरधुरन्धरः । धनैर्यस्य धनेशत्व-मलीकमलकेशितः ॥४॥ तत्पत्नी श्रीसखी नाम, जिनशासनभाविता । श्रयन्ति यां विवेकाद्या, गुणा दिवमिव ग्रहाः ॥५॥ स वार्धके सुतं प्राप-दुपयाचितकोटिभिः । दैवाद् बभूव चासन्न-स्तदा पर्युषणोत्सवः ॥६॥ अथाष्टमं तपः कार्य-मिति लोकेन भाषितम् । श्रुत्वा बालोऽपि स ज्ञानी, चक्रे निष्कष्टमष्टमम् ॥७॥ अरोगिण्यपि चाऽऽहार-परिहारपरे सुते । पिता तद्वेदिभिस्तांस्ता-नुपचारानकारयत् ॥८॥ तथाऽपि बालः कष्टेऽपि, स्वप्रतिज्ञातमत्यजन् । मूर्च्छया छन्नचैतन्यः, शून्यभावेन सोऽभवत् ॥९॥ मूर्होछादितजीवन्तं, जीवन्तमविजानती पर्वभङ्गं पितुर्दु:खं, नाऽल्पं चास्य विभाव्यसे ॥१०॥ माता विवेकिनी बालं, कोमलक्षौमवेष्टितम् । गृहोपवन एवामुं, निचखान निधानवत् ॥११ ॥(युग्मम्) प्रातश्च ज्ञातवृत्तान्तः श्रेष्ठी तनयवत्सलः । विदीर्णहृदयः सद्यः, शोकाल्लोकान्तरं ययौ ॥१२॥ कथारत्नसागरे अथ पृथ्वीपतिव्रत्वा, सपुत्रमपि तं मृतम् । गृहे पञ्चकुलं प्रेषीत्, सर्वस्वग्रहणाऽऽग्रही ॥१३॥ अमिलत्सु कपाटेषु, विशद्भिर्गलहस्तितैः । पुरुषैापितो राजा, विस्मितः स्वयमागमत् ॥१४॥ विशन्नथ विशामीशः, कोशागारं निवारितः । हुङ्कारेणातिभीमेन, भीतो द्वारेऽप्युपाविशत् ॥१५॥ भक्तिपूर्वमवादीच्च, भो! भो! वेश्माधिदेवता । प्रत्यक्षीभूय मां शाधि, बाधितोऽस्मि किमु त्वया ॥१६॥ अथ साक्षान्नृपं प्राह, दिव्यमूर्तिधरः सुरः । धरणेन्द्रोऽहमन्याय-कारिणं त्वां सहे न हि ॥१७॥ नृपः प्राह किमन्यायो, निर्वीराधनसङ्ग्रहे ? । सोऽवादीद्वीर! निर्वीरा, जीवत्यपि सुते कुतः ? ॥१८॥ साक्षाद्वीक्षस्व तं हस्ते, कङ्कणे दर्पणेन किं ? इत्युक्त्वा भूभृदध्यक्षं, तन्मात्रा तमुपानयत् ॥१९॥ सद्यः क्षितेः समुत्खातं, किं कार्तस्वरभास्वरम् । बालमालोक्य जीवन्त-मवनीशो विसिष्मिये ॥२०॥ तत्त्वं जाने न हि ब्रूहि, प्रभो ! किमिदमद्भुतम् । इत्युक्ते भूभुजावादी-द्धरणः शृणु भूपते! ॥२१॥ पुराऽऽसीद् भरतक्षेत्र-मण्डने कुण्डिने पुरे । वणिजः सुंदराख्यस्य नन्दनश्चन्दनाभिधः ॥२२॥ तस्याऽथ जातमात्रस्य, माता मृत्युमुपागमत् । विमात्रा मातृरोषेण, स चाऽत्यर्थं कदर्थितः ॥२३॥ भार्याभक्तेन पित्रापि, मात्सर्यादति भर्त्सितः । अभिगम्य मुनि कश्चि-दाचख्यौ दुःखमात्मनः ॥२४॥ स प्राह सर्वमप्येतदु:खमत्यन्तदुःसहम् । अवगच्छ फलं वत्स, स्वापराधैकवीरुधः ॥२५॥

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109