Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________
तरङ्ग ५: मित्रसेनकथा
उवाच सोऽपि किं कार्य, निधिदेवेन तेन ते । आचख्यौ सचिवस्तस्य प्राघुणोऽस्मि समागतः ॥ ३४ ॥ सोऽप्यचे निधिदेवोऽहं, दारुवद्दारुणात्मभिः । भक्षितोऽस्मि हहा कष्टं, प्रत्यहं प्राघुणैर्घुणैः ॥ ३५ ॥ त्वमप्यागच्छतात्तेषां न्यूनत्वं परिपूरय । ब्रुवन्निति समं तेन भोक्तुमन्तरुपाविशत् ॥ ३६ ॥ कुलत्थ-कङ्ग- कालिङ्ग-कारवेल्ल- करीरकैः । स भुञ्जानः समं तेन, क्षीरपाणमयाचत ॥३७॥ अकस्मादेव वण्ठस्य, समेऽप्यागच्छतः पथि, स्खलनात् पतितं पाणे-रभाञ्जि क्षीरभाजनम् ॥३८ ॥ आचान्तो भोजनान्तेऽस्मै दत्त्वा खदिरबीटकम् । तेनैव सह बभ्राम द्रविणोद्ग्रहणाय सः ॥ ३९ ॥ धर्महस्तशतैर्दत्ते, वासके वण्ठसंनिधौ । श्रेष्ठिनी सायमतिथेः, कुथत्कन्थामथार्पयत् ॥४०॥ शस्त्री गिरा च कान्त्या च तृष्णेव धृतविग्रहा । कृत्येव साक्षात्तेनाऽसौ ददृशे तस्य गेहिनी ॥ ४१ ॥ ततस्तद्वैभवं तच्च, कार्पण्यं तस्य पश्यतः । रात्रौ निद्रादरिद्रस्य कुतोऽपि समभूद् ध्वनिः ॥४२ ॥ रे रे वण्ठ ! क्रियाकुण्ठ ! किमिति क्षीरमाहर: ? । परं मयाऽपराधस्ते, रक्षितो भाण्डभञ्जनात् ॥ ४३ ॥
इत्येतस्य ध्वनेरन्ते, कौतुकोत्तानचक्षुषः ।
जगाम कौमुदीवास्य, पश्यतः कापि कामिनी ॥ ४४ ॥ ततो वण्ठेऽप्यविज्ञात- वृत्तान्ते सचिवोत्तमः ।
तत्र चिन्ताभिरावान्त - स्वान्तस्तामनयन्निशाम् ॥ ४५ ॥
३५
कथारत्नसागरे
३६
आपृच्छ्य श्रेष्ठिनं प्रातः, पृच्छन् जनपरम्पराम् । भवनं भोगदेवस्य सुधाधवलमभ्यगात् ॥ ४६ ॥ उत्थाय द्वारपालेन, स्वासने सन्निवेशितः । यावत् प्रतीक्ष्यते तावत्, पादाम्भपरिवारितम् ॥४७॥ बन्दिवृन्दमुखोन्मुक्तैः सूक्तैर्मुखरिताम्बरम् । तुरगारूढमुल्लासि-मयूरातपवारणम् ॥४८॥ प्रत्येकं विसृजन्तं च कृतार्थानर्थिनो जनान् । आयान्तं श्रेष्ठिनं प्रत्युज्जगाम सचिवाग्रणीः ॥ ४९ ॥ श्रेष्ठी दृष्ट्या सुधावृष्ट्या, स्नपयन्निव मन्त्रिणम् । उत्तीर्य तुरगात् तेन, सहितः प्राविशद् गृहम् ॥५०॥ अथ श्रेष्ठी कृतस्नानः, स्त्रपितेनामुना समम् । देवतावसरस्यान्ते, सिंहासनमुपाविशत् ॥ ५१ ॥ दत्तासनः समासीनः, सचिवाग्रेसरः पुरः । इतस्तत: परीवार - व्यापारणपरायणाम् ॥५२॥ सुधारसमुचं वाचा, दृशा च गजगामिनीम् । ददर्श गृहिणीं तस्य गृहलक्ष्मीमिव स्थिराम् ॥५३॥ युग्मम् । उल्लसत् कमलाऽऽमोद-सुरभीकृतदिङ्मुखाम् ।
पुनः सञ्चारयन्ति स्म, दास्यो रसवतीं पुनः ॥ ५४ ॥ श्रद्धावान् विविधैर्भोज्यै-रभ्यर्च्य मुनिपुङ्गवान् । चिन्तां कृत्वा गवादीना - मनुकम्प्य वनीपकान् ॥५५ ॥ भोगदेवः समं तेन, वीज्यमानोऽञ्चलैश्चलैः । सरसं कर्तुमारेभे भोजनं सपरिच्छदः ॥ ५६ ॥ युग्मम् । अथास्मै सूपकृद्यावत् आनेतुं यतते दधि । तावद्ददर्श तद्भाण्डं, बिडालैरपवित्रितम् ॥५७॥

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109