Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________
तरङ्ग-८ : जयराजचरितम्
शङ्खो ऽपि तं तदादेश-मुत्तंसीकृत्य भक्तिभाक् । अनुगम्यैनमापृच्छ्य, सुसार्थेनान्यतोऽगमत् ॥७२॥ तस्मिन् सार्थेऽन्यदा रात्रावद्रिद्रोणीविसर्पिणी । भीमपल्लीपतेर्घाटी, यमस्येव समागमत् ॥ ७३ ॥ तत्र च त्रासिताः केऽपि, केऽपि दिग्वसनीकृताः । प्रहारैर्दारिताः केपि केऽपि निर्जीविताः कृताः ॥ ७४ ॥ आत्मना दशमं शङ्खं, बन्दीकृत्य किरातकाः । सादरं दर्शयाञ्चक्रुः, भीमपल्लीपतिस्ततः ॥७५ ॥ भीमोऽभ्यधत्त भोः सर्वान्, बालेयान् मनुजानिमान् । निधत्त गुप्तौ प्राप्येत, यावदेकादशः पुमान् ॥ ७६ ॥ तथाकृतेऽपि तैः शखं निर्निर्मोकविवेकवान् । मन्त्रराजं जपन्नाप, ध्यानमानन्दमन्दिरम् ॥७७॥ लब्धे चैकादशे पुंसि, निर्दिष्टे चाष्टमी दिने । आनाययदिमान् भीमश्चण्डिकामन्दिरोदरे ॥ ७८ ॥ अभ्यर्च्य चर्चिकामग्रे, सैष भीषणभूषणान् । ऊर्ध्वदमानिमानूचे, प्रेङ्खितासिलतस्ततः ॥ ७९ ॥ पुरा भूताभिभूतस्य सुतस्यार्थे पणीकृतः । चामुण्डाया भवन्मुण्डैर्देयः सोऽयं मया बलिः ॥८०॥ तदहो ! दृश्यतां विश्वं स्मार्यतामिष्टदैवतम् । मा कुरुध्वं पतत्यस्मिन्, कृपाणे कृपणं मनः ॥ ८१ ॥ इत्थं भीमे वदत्येव, शङ्खे शखोज्वलाशये । मन्त्रराजस्मृतिपरे, पल्लीलोकेशकौतुके ॥८२॥ आयाताऽऽयात भो भूताः ! कुमारं मारयत्ययम् । इत्यार्त्तस्तुमुलस्तत्र, पल्लीशं विवशं व्यधात् ॥ ८३ ॥ ( युग्मम् ) समुत्सृज्य ततः सर्वं भीमे याते सुतान्तिकम् । शङ्खस्तं मन्त्रराजस्य, महिमानममानयत् ॥८४॥
५९
६०
ऊचे कञ्चित्पुलिन्दं च भद्रपल्लीन्द्रनन्दने । द्रष्टुं निजस्य मन्त्रस्य माहात्म्यमहमुत्सहे ॥८५॥ भिल्लोऽथ कथयामास, पल्लिनाथस्य तत्तथा । तेनाप्याहूय सत्कृत्य, शङ्खः पुत्रार्थमर्थितः ॥८६॥ सोऽथ मण्डलमाधाय, न्यस्य पल्लीपतेः सुतम् । जनितासनसंरम्भः कृतनिर्दंभकुड्मकः ॥८७॥
कथारत्नसागरे
हृदि चाभ्युदितं चक्रे, मन्त्रराजमयं महः । निःससार कुमाराङ्गात्, तच्चभूतमयं तमः ॥८८॥ किमेतदिति जल्पन्तं पुत्रमालिङ्ग्य पल्लिपः । तुष्टः शङ्खमभाषिष्ट, किङ्करः किं करोमि ते ? ॥८९ ॥ मुञ्च बन्दीकृतानेता-निति शखेन भाषिते । भोजयित्वाऽथ सत्कृत्य स तान् हृष्टो विसृष्टवान् ॥९० ॥ पुनः पल्लीसमादेश- प्रार्थिनं श्रेष्ठिनन्दनः । अभयं दापयामास, प्राणिश्रेणेर्निरागसः ॥ ९१ ॥
अहो ! मन्त्रस्य माहात्म्य - महो ! वात्सल्यमद्भुतम् । अहो ! परोपकारित्वं, अहो ! कापि निरीहता ! ॥ ९२ ॥ इति स्तुत्वाऽथ सन्मान्य, विविक्तावासवासिनाम् । उपासामासिवान् शखं पितृवद् गुरुवच्च सः ॥९३॥ अन्यदा पितुरादेशात्, चिरादुत्सुकचेतसम् ।
भीमः शङ्खमसङ्ख्यार्थं प्रापयत् पितुरन्तिकम् ॥९४॥ तत्र मित्र- स्वबन्धूनां तत्र वृत्तान्तकीर्त्तनात् । वैराग्यं च विषादं च विस्मयं च चकार सः ॥९५ ॥ अर्जयित्वा चिरं देह द्रव्यैः सुकृतसञ्चयम् ।
गतो लोकान्तरं लक्ष्मीं भेजे भुवनवासिनाम् ॥ ९६ ॥ तस्याथ स्वायुषः शेषे कथितं ज्ञानशालिना । हस्तिनागपुरे भावी, भवान् शूरनृपात्मजः ॥ ९७ ॥

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109