Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________
तरङ्ग-८ : जयराजचरितम्
तत्रारिकरिशार्दूलः, शार्दूलः पृथिवीपतिः ।
नन्दनश्चन्दनस्तस्य नन्दाहृदयनन्दनः ॥२४ ॥
पुरोहितसुतो विष्णु स्तत्र मन्त्रिसुतः सुधीः । शङ्खश्रेष्ठिसुतश्चैषां सख्यमासीत्परस्परम् ॥२५॥ अथान्यदा समं मित्रैश्चन्दनो नृपनन्दनः । वाहवाहनतः श्रान्त-स्ततश्चततरोस्तले ॥ २६ ॥ दूरदेशादुपायातं, कञ्चित् कापालिकं मुनिम् । दृष्ट्वा ननाम सोऽप्यस्मिन् आर्शीवादमुदाहरत् ॥२७॥ त्वं राजपुत्र ! कन्दर्प- रूपदर्पापहाकृते ।
॥२९॥
भव नागाङ्गनोत्सङ्ग-रङ्गसङ्गमभाजनम् ॥२८॥ मुनी मानवः क्वाहं ?, नागानामङ्गना क्व च ? | आशीर्वादो विसंवादी, तदयं प्रतिभाति इत्युक्ते राजपुत्रेण पुनः कापालिकोऽब्रवीत् । आशीर्वादविसंवादः किमयं शक्यते यतः ॥३०॥ मित्रवर्गे च धौरेये, धीरे च त्वयि साधके । निर्विकल्पे च कल्पज्ञे, मयि किं नाम दुर्घटम् ? ॥३१ ॥ गोष्टाश्चैः किं सुतैर्गेहे नर्दिभिः कूपदर्दुरैः । ये निःशेषां न वीक्षन्ते, नानाश्चर्यमयीं महीम् ॥३२॥ कापालिकवच: पूर-समीरिणसमीरितः । तस्य नागाङ्गनाराग-सागरो भृशमक्षुभत् ॥३३॥ कृतार्थीकृत्य भूमीन्दु- नन्दनस्तं विसृज्य च । वेगाज्जगाम स्वं धाम, कामक्षामीकृताकृतिः ॥३४ ॥ अथ मित्रैः समं रात्रौ गत्वा कापालिकान्तिके । अपृच्छन्नागनारीणां, सङ्गमौपयिकं क्रमम् ॥३५॥
५५
कथारत्नसागरे
५६
ततः कापालिकः प्राह राजपुत्र ! निशम्यताम् । इहास्ति हास्तिकस्तोमै - रवन्ध्यो विन्ध्यभूधरः ॥३६॥ तन्निकुञ्जेसु वेलाख्य-यक्षमन्दिरमद्भुतम् । तद्वामभित्तौ केयूरसञ्ज्ञं च विवरान्तरम् ॥३७॥ श्रृंगाररसवाहिन्य- स्तत्र पातालयोषितः । हरन्ति स्मरसन्तापं सत्त्वसम्पत्तिशालिनाम् ॥३८ ॥ इत्यासाद्य गिरं तस्य, स्मरापस्मारसारणिम् । कुमारस्य हृदि प्राप, प्ररोहं मोहभूरुहः ॥ ३९ ॥ अनाख्याय पितुः साकं मित्रैः कापालिकानुगः । चलितोऽसौ मिथः प्रोक्तः, शंखेन सुधियाऽपि च कुमार ! वसुधाधार !, नीतिशास्त्रेष्वधीतिनः । अज्ञातशीलसारेऽस्मिन् विश्वासो युज्यते न ते ॥ ४१ ॥ न नारीषु न मूर्खेषु, न विरुद्धेषु नार्थिषु । न चाविज्ञातशीलेषु, विश्वसन्ति विपश्चितः ॥४२ ॥ इत्यसौ मित्रवचनैः, शकुनैश्च निवारितः । बलाद्यक्षान्तिकं निन्ये, दैवेनेव कपालिना ॥ ४३ ॥ आसन्ना विकटे क्रीत-मथ छागचतुष्टयम् । एतांश्च चतुरस्तूर्णं कृत्वा स्नपितचर्चितान् ॥ ४४ ॥ यक्षस्य पुरतो धृत्वा, पूजयित्वा च तं ततः । सोऽभ्यधात् साधकाः ! सिद्धि-ध्रुवं बलिपुरस्सरा ॥ ४५ ॥ तदेकैकमिह छागं, यच्छन्तु बलहेतवे । तदुक्तं तत्तथाचक्रे, राजपुत्रादिभिस्त्रिभिः ॥४६॥ धर्मनिर्मलचित्तेन, शङ्खेन तु विचिन्तितम् । अहो विमूढैस्त्यज्यन्ते, प्राणिद्रोहेण सिद्धयः ॥ ४७ ॥
॥४०॥

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109