Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 47
________________ ७३ ७४ तरङ्ग-९ : शारदासौहार्दम् ततः सुभोगे ! सौभाग्य-दर्शनात्ते सुलोचना । करिष्यति यशोराशिं, दिक्कुक्षिम्भरिसौरभम् ॥१३२ ॥ भवत्या सपरीवार-विवेकानुगृहीतया । करिष्यति जने दृष्टे, वस्तुनां न तु वस्तुताम् ॥१३३ ।। पूर्वेषां चेयमुद्दW, फलमऽन्यायकारिणाम् । न्यायस्य पथि पान्थत्वं, प्रापयत्यधुनातनान् ॥१३४॥ एतच्च तत्त्वतः शत्रौ, सङ्गरे गौरवं तव । परद्रव्याऽपहारादि, दोषभूरुहभूरभूत् ॥१३५ ॥ तच्च तस्मिन् गरीयस्त्वं, यत्सुभोगे त्वया कृतम् । तदुपाध्यायवन्ध्यत्वात्, तस्य भूपानभिज्ञया ॥१३६ ॥ दूरात् परिहरत्यैषा, जनं यच्चान्यचेतसम् । प्रमादमदमत्तस्य, तदेतत्तस्य शिक्षणम् ॥१३७ ॥ ताताऽवज्ञादयो दोषाः, कुसंसर्गोद्भवास्तु ये । कुतस्त्यास्ते विवेकेऽस्याः, प्रसादं समुपेयुषि ॥१३८ ॥ सुभोगे ! त्वं सुभोगैव, केवलं भगिनी नु ते । स्वभावादेव नि:शेष-कलाकौशलशालिनी ॥१३९ ॥ ततः सञ्चिन्तयाऽऽत्मानं, विहायेतां हिते रताम् । तवायव्ययचिन्ताया-मपि को जागरिष्यति ? ॥१४० ।। कस्ते हस्त्यश्वरत्नादि-परीक्षां च करिष्यति । सङ्गीतादिकलागर्ने, कस्याविर्भावयिष्यति ? ॥१४१॥ कृष्यमाणां च केशेषु, बलिभिश्छलिभिः परैः । विनाऽनया परित्रातं, नैकस्त्वां विक्रमः क्षमः ॥१४२॥ दूरतश्चैतया त्यक्ता, स्वप्रभुत्वाभिमानिनी । कृत्याकृत्येषु मुह्यन्ती, सतां यास्यसि हास्यताम् ॥१४३ ।। कथारत्नसागरे उन्मत्तपशुसङ्ख्यायां, गुणिता गुणिनां गणैः । कथं वा विज्ञगोष्ठीषु, गमिष्यसि मनुष्यताम् ॥१४४ ।। इमां विमुच्य को नाम, त्वामज्ञानविमोहिताम् । अस्थानेषु निमज्जन्ती, स्थानेषु विनियोज्यते ॥१४५ ॥ ग्रहं मिथ्याभिमानस्य, धूर्तादीनां च विप्लवम् । एतदन्योऽपि किं भावी, भवत्या रक्षितुं क्षमः? ॥१४६ ॥ विमर्श चाऽऽत्मसात्कृत्वा, नित्यमाराधितोऽनया । करिष्यति विवेकोऽपि, प्रसादं त्वयि नाऽन्यथा ॥१४७ ॥ किमन्यद् दर्शिते मार्गे, विवेकादिष्टयाऽनया । सञ्चरत्यां त्वयि पिता, भावी प्रमदमेदुरः ॥१४८॥ विवेकानुग्रहे ज्येष्ठ-भगिन्याश्चानुवर्तिनी ।। पितुः प्रसादाद् राज्ञोऽपि, त्वं भविष्यसि भूषणम् ॥१४९ ।। तदनर्थफलं हित्वा, सुभोगे ! विग्रहं त्वया । एतस्यां सविवेकायां, प्रेमबन्धो विधीयताम् ॥१५० ॥ सुलोचने ! त्वयाप्येषा, द्रष्टव्या स्निग्धया धिया । भवत्योः समवाये हि, स्वल्पः कल्पद्रुमोऽपि सः ॥१५१॥ भूष्यभूषणभावो हि, भवत्योरुभयोः समः । रजन्या राजते ज्योत्स्ना, ज्योत्स्नया रजनिः पुनः ॥१५२ ॥ किञ्च पाण्डित्यमेवैतत्, जातं तव सुलोचने । वैभवं तु सुभोगाया-मेव दैववशादऽभूत् ॥१५३॥ ततोऽनया विना गेहे, विशन्ती गृहमेधिनी । करोषि त्वं प्रमोषित्व-शङ्कासङ्कचितं मनः ॥१५४ ॥ एतया सह सम्बन्ध-वन्ध्यायास्तु सुलोचने । धान्य-चीरादिचिन्ताया-मपि कः प्रयतिष्यते? ॥१५५ ॥

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109