Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________
तरङ्ग-९ : शारदासौहार्दम् विरोधे कारणं श्रेष्ठि-न्निदं तव निवेदितम् ।। तत्प्रमाणीकृतोऽसि त्व-मुच्यताम् यत् तवोचितम् ॥१०८ ॥ अवोचत ततः श्रेष्ठी, सुधारसकिरा गिरा । युवाभ्यां सत्यमाख्यातं, तन्ममापि निशम्यताम् ॥१०९ ।। प्रायः प्ररोहत्यानन्द-कन्दश्छन्दानुवर्तनात् । सर्वस्यापि विशेषेण, स्त्रीणां मृदुलचेतसाम् ॥११०॥ सुभिक्षं ह्यक्षयं लौकै-रहितस्योपदेशिभिः । जानन्त्यपि हितं ये तु, दुर्भिक्षं तैस्तु शाश्वतम् ॥१११ ॥ हितं कथञ्चित् कस्मिंश्चिद्, विदत्यपि वदत्यपि । शृणोति यः पुनः सम्यक्, स कोऽपि स्यान् न वा यदि ॥११२ ।। कटुकं तन्मया प्रोक्तं, हितमायति सुन्दरम् । सदौषधमिवाऽऽदातुं, चेतो यद्यस्ति वस्तुतः ॥११३ ॥ आकर्ण्यतामुभाकर्णि, तदिदं वदतो मम । यथाविधि विधानेन, तदर्थश्च कृतार्थताम् ॥११४ ॥(युग्मम्) युवयोर्द्धर्मजातत्वा-दोषो नैवास्ति वास्तवः ।
औपाधिकास्त्वमी केचित्, ते तु तातप्रमादजाः ॥११५ ॥ भवत्योर्महिमा त्वेषः, जगतोपि प्रियङ्करः ।। वात्सल्यैकनिधेस्तस्य, तातस्य नु किमुच्यते ॥११६ ॥ ततस्तातेन वात्सल्यात्, केवलं लालिते युवाम् । नितान्तं न पुनर्दान्ते, साधूपाध्यायसन्निधौ ॥११७ ।। जायते हन्त जन्तूनां, निष्कलङ्का मतिः कुतः । उपाध्यायवचःशाण-घर्षणोल्लेखनं विना ? ॥११८ ॥ तेन निर्मलयोरेव, युवयोरेष रत्नवत् । असंस्कारेण दोषात्मा, खेलत्युच्छृङ्खलो मलः ॥११९ ॥
७२
कथारत्नसागरे तद्विशुद्धमनोवृत्ति-रिति नाम्नास्ति विश्रुता । विशाला लेखशाला मे, स्फटिकोपलनिर्मला ॥१२०॥ एको विवेकनामाऽस्ति, तत्रोपाध्यायपुङ्गवः । सजीवैरूपजीव्योऽय-मुपाध्यायान्तरैरपि ॥१२१॥ देवानामप्ययं देवो, गुरुणामप्ययं गुरुः । विज्ञानामप्ययं विज्ञः, प्रभूणामप्ययं प्रभुः ॥१२२ ।। अनेनाधिष्ठितोऽश्वादिः पशुरप्यर्च्यते नृपैः । मुक्तस्त्वेतेन कस्यापि, नरोऽपि हि न रोचते ॥१२३ ।। किं वा वैगुण्यषाड्गुण्य-प्रयोगज्ञः क्षमाभुजाम् । एष निःशेषराज्याङ्ग-स्थिरीकाररसायनी ॥१२४ ॥ निष्कारणजगद्बन्धो-रस्य लोकम्पृणा गुणाः । स्फुरन्ति हृदयाऽऽदर्श, सचिवस्य नृपस्य च ॥१२५ ॥ तयोश्च प्रीतिसम्बन्धात्, पार्श्ववर्ती सुलोचने । दृष्टः कदाचिदप्येष, भवत्यापि भविष्यति ॥१२६ ।। दोषैकसागरस्यास्य, स्वरूपं सागरस्य तत् । यथावस्थितमेवैतद्, भवत्यापि प्रकाशितम् ॥१२७ ।। एतस्य च विवेकस्य, तत्त्वदृष्टिरिति प्रिया । अत्यन्तं तोषितोऽप्येष, यां विना न फलप्रदः ॥१२८॥ विमर्शश्चात्मजस्तस्य, वल्लभः प्रतिभाव्यताम् । यस्मिन्नाराधिते सम्यग, विवेकोऽपि प्रसीदति ॥१२९॥ सत्कुटुम्बोपि यत्नेन, तदुपास्त्या निरन्तरम् । भवतीभ्यामयं नेय-स्तन्मयीभावमात्मनः ॥१३० ।। तदेते युवयोर्दोषा, नि:शेषास्तदनुग्रहात् । क्षयं यास्यन्ति नितमां, तमांसीव दिनोदयात् ॥१३१॥

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109