Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________
तरङ्ग-९ : शारदासौहार्दम्
उद्दामरूपलावण्यं पुण्यं जनमनोहरम् । भुवनाद्भुतसौभाग्य- भाग्यसौरभ्यभासुरम् ॥६०॥ दिव्यमूर्त्तिधरं किञ्चित् पावनं वनिताद्वयम् । अप्रतर्कितमभ्येत्य समीपे समुपाविशत् ॥ ६१ ॥ दृष्ट्वा च पृष्टवान् श्रेष्ठी, विस्मयस्मेरमानसः । के भवत्यौ कुतः किं वा, समागमनकारणम् ? ॥६२॥ ऊचतुस्ते ततः सर्व-मस्मदीयमुदीरितम् ।
एकायत्तेन चित्तेन, श्रेष्ठिन्नाकणर्यतामिति ॥ ६३ ॥
धर्मस्य मन्त्रिणः पुत्र्या - वावामत्यन्तवल्लभे । सुलोचना सुभोगा चे - त्याऽऽख्यया ख्यापिते जनैः ॥६४॥ किन्त्वन्योऽन्यविरोधेन, जन्मसब्रह्मचारिणा । जनस्य हसनीयत्व - मात्मना च क्षयं गते ॥ ६५ ॥ निजस्य जनकस्यापि सञ्जाते क्षयकारणम् । प्रयाते तत्त्वविज्ञान - शुचीनां शोचनीयताम् ॥६६ ॥ आवयोस्तुल्यवात्सल्यात् प्रबोधं कर्तुमक्षमः । ततोऽनुज्ञातवांस्तातः सभ्याभिगमनं स्वयम् ॥६७॥ आवाभ्यां च पुरेऽत्रैव, वास्तव्याः श्रेष्ठिनस्त्रयः । बालिशो मध्यबुद्धिश्च सुबुद्धिश्चेति नामतः ॥६८॥ व्यवहारार्णवावार- पारीणारीणबुद्धयः । आकर्णिताः सकर्णानां ते धुरन्धरतां गताः ॥६९ ॥ अथ प्रथममभ्येत्य पशुप्रतिमचेष्टितः ।
स किञ्चिद् बालिशो दृष्टः प्रभ्रष्टसकलक्रियः ॥ ७० ॥
ततश्च तमवज्ञाय, बालिशं मूढमानसम् । विवेकशालिनं किञ्चित्, मध्यबुद्धिमुपस्थितम् ॥ ७१ ॥
६७
कथारत्नसागरे
६८
पृष्टे चैकैकमेकान्ते, कृत्वा मध्यमबुद्धिना । आवामाख्यातवत्यौ तं स्वविग्रहपरिग्रहम् ॥ ७२ ॥ यया च सहसंलापः सञ्जातः श्रेष्ठिनो यदा । तन्मयत्वं तदैवाभूत्, तस्य तद्विभ्रमोर्मिभिः ॥ ७३ ॥ ततश्चैतन्यशून्यत्वात् कोऽहमेते च के कुतः ।
किं कृत्यं किमकृत्यं च ग्राह्यं त्याज्यं च किं मम ? ॥ ७४ ॥ । किं वा वाच्यमवाच्यं वा, गम्यागम्यं च किं मम ।
किं वा भक्ष्यमभक्ष्यं चेत्यादिकं न विवेद सः ॥ ७५ ॥ युग्मम्) प्रत्यभिज्ञातवान्नैष, चिरात् परिचितानपि ।
अग्रस्थानपि नाऽद्राक्षीद् यावद् वा कोऽपि नाऽवदत् ॥ ७६ ॥ पूज्यवर्गेऽप्यहङ्कारी तिरस्करी महत्स्वपि ।
देवेष्वपि कृशा भक्ति-रवज्ञावान् गुरुष्वपि ॥ ७७ ॥ हितोपदेशे बधिरो, मूको गुणि गुणस्तुतौ ।
पङ्गुः परोपकारेषु, शून्यस्तत्त्वमतावभूत् ॥ ७८ ॥ युग्मम्) तमेवं विस्मृतात्मानं, भूताविष्टमिवावयोः ।
अबोधे विकलं हित्वा सकलं त्वामुपागते ॥ ७९ ॥
ततः सुबुद्धे ! सम्बोध्य, विरोधन्तौ निवारय । यतः सतां मनः स्वार्थः परार्थकरणोद्यमः ॥८०॥ शक्तिः क्षान्तिर्द्धनं दान-मुन्नतिर्गुरुनम्रता । स्वार्थं परार्थसम्पत्तिः सतां चरितमद्भुतम् ॥८१॥ हेम्नः स्यात् तस्य किं मूल्यं, येनाऽऽरुह्य तुलास्वयम् । सहनं दहनादीनां पराऽलङ्कृतये कृते ॥ ८२ ॥
अथ श्रेष्ठी तयोर्ज्येष्ठा-मभाषिष्ट सुलोचनाम् ।
भद्रे ! सुभोगया सार्द्ध किं विरोधनिबन्धनम् ॥८३॥

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109