Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________
तरङ्ग-९ : शारदासौहार्दम्
सद्यः प्रसादमासाद्य, कृतकृत्यस्ततः कृती । नवाम्बुद इवाम्भोधेः, शर्ववर्मा न्यवर्त्ततः ॥३६॥ अथोपेत्य परं पौरैः, सानन्दमऽभिनन्दितः । तापं निर्वापयामास, भूभृतो निजसङ्गमात् ॥ ३७ ॥ अन्येद्युः पुण्यवेलायां, लग्ने ग्रहबलोज्जवले । पावनामवनीं कृत्वा, स्थापयित्वा च मण्डलम् ॥३८॥ आत्मानं सफलीकृत्य कृताऽऽसनपरिग्रहः । ध्यात्वाऽसौ सोमचक्रान्तः, परब्रह्ममयं महः ॥ ३९ ॥ कुर्वन् दृष्ट्या सुधावृष्टिं पुरतो विनिवेशिते । सारस्वतमयं ज्योति- र्निदधे वसुधेश्वरे ॥ ४० ॥ (त्रिभिर्विशेषकम् ) ततस्तत्कालविध्वस्त-तमस्तोमः सवाङ्मयम् । सुप्तप्रबुद्धवत् सर्वं पूर्वाधीतमिवाऽस्मरत् ॥ ४१ ॥ अथ मेदुरितामन्द-प्रमोदो मेदिनीपतिः । गुरुमभ्यर्चयामास, वासः कनकमौक्तिकैः ॥४२ ॥ कृताञ्जलिपुट: स्पष्टो दञ्चिरोमाञ्चकञ्चकः । आनन्दगद्गदं राजा, जगादेति गुरोः पुरः ॥४३ ॥ अन्तः शून्या बहि: साराः सन्ति वंशेषु भूरिशः । अन्तःसारः पुनः कोऽपि प्राप्यते वा न वा यदि ॥ ४४ ॥ परे पर: शताः सन्ति, महान्तो हन्त भूरुहः । एकेन पारिजातेन, नन्दनं नन्दनं पुनः ॥४५ ॥ महात्मन् ! स्वप्रतिज्ञात- मेतत् साधयता त्वया । वावदूकश्च मूकश्च सममेव कृतोऽस्म्यहम् ॥४६॥ अद्भुतं जन्म तन्मन्ये यद्दत्तं सुगुरोर्गिरा । पितृभ्यां यत्तु सम्भूतं सदृशं तत्पशोरपि ॥ ४७ ॥
६५
६६
तदादिश विसच्छेद- ज्योत्स्नास्वच्छेन चेतसा । अमूल्योऽपि कृतिक्रीतः किङ्करः किं करोमि ते ? ४८ ॥ अथोचे सचिवो देव!, देवेन त्वं प्रभुः कृतः । अस्मादृशां पुनः सत्यं, तवोपकरणीकृतम् ॥४९॥ तेनोपकरणैः स्वस्व व्यापारविनियोजितैः । यदुपक्रियते भर्तुस्तत्र तेषां किमद्भुतम् ॥५०॥ मा स्म तस्मादिदं वोचः स्वामिन्नौचित्यवञ्चितम् । विश्वस्य हि त्वमादेष्टा, तवापि न पुनः परः ॥ ५१ ॥ किन्त्वेतत्ते प्रबोधाय सुबुद्धेश्चरिताद्भुतम् ।
कथारत्नसागरे
स्वानुभूतं महीनाथ ! कथ्यमानं मया शृणु ॥ ५२ ॥ सुप्रतिष्ठितमित्यस्ति, पुरं गुणगणोत्तरम् । नरेश: सुस्थितस्तत्र, वैरिवारजयोर्जितः ॥५३॥ यः क्षेत्रं पुण्यबीजानां सेतुर्दारिद्र्यवारिधेः । रोहणः सुखरत्नानां, दवाग्निर्दु:खवीरुधाम् ॥५४॥ असम्बन्धो जगद्बन्धु-रनाराद्धो जगद्गुरुः । अकृत्रिमं जगन्मित्र - मशस्त्रश्च जगज्जयी ॥५५ ॥ धर्म इत्यभिधानेन, सचिवस्तस्य विश्रुतः । समग्रस्यास्य लोकस्य, सुखसम्पत्तिकारणम् ॥५६॥ यः पिता पितृशून्यानां माता मातृवियोगिनाम् । बन्धुर्बन्धुविहीनानां पुत्रं पुत्रार्थिनामपि ॥ ५७ ॥ सुबुद्धिर्नाम तत्राऽस्ति श्रेष्ठी श्रेष्ठगुणास्पदम् । हेयोपादेयवस्तूनां विवेक्ता राजहंसवत् ॥५८॥ अन्यदा श्रेष्ठिनस्तस्य निर्जिताऽमरसम्पदः । विमानविजयिन्युच्चैर्निजवेश्मानि तस्थुषः ॥५९॥

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109