Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________
५३
५४
कथारत्नसागरे
तरङ्ग-८ : जयराजचरितम्
दयाधर्मे जयराजचरितम् अष्टमस्तरङ्गः - ८ धर्मेषु सार्वभौमोऽयं, जीयाद्धर्मो दयामयः । दानाद्यशेषधर्माणां, यन्निमित्तं प्रवृत्तयः ॥१॥ तदाराध्यैनमारोग्यं, वैभवं जीवितं यशः । स्वर्गापवर्गलक्ष्मी च, लभतां जयवज्जनः ॥२॥ चूडारत्नक्षितेरस्ति, 'पुरं श्रीहस्तिनापुरम् । प्रपञ्चातिक्रमाच्चित्रा, यत्र वर्णव्यवस्थितिः ॥३॥ यस्मिन्नशोक-पुन्नाग-सङ्गसङ्गमितश्रियः । सुस्निग्धा बहिरारामा, रामाश्चान्तश्चकासति ॥४॥ भूर्भुवःस्वस्त्रयीदत्त-यश:कुसुमसौरभः । आपालयत्सदाराम, तदारामिकवज्जयः ॥५॥ रविः शूरः शशी राजा, गुरुर्वाचामधीश्वरः । स्मरो धनुर्धरश्चासीत्, यस्मिन् वसुमतीपतौ ॥६॥ स धर्मन्यायधौरेयः, धृतराज्यधुराधरः । सुखं नियन्ता लोकानां, गमयामास वासरान् ॥७॥ कदाचित् पृथिवीनाथः प्रातरास्थानमास्थितः । यावद्गोष्ठीसुखेनास्ते, तावद्वाचं तमग्रतः ॥८॥ चन्दनव्यञ्जनव्यग्र-हस्ताग्रमनवग्रहम् । चित्रशालोन्मुखं लोक-मवलोकयति स्म सः ॥९ ॥युग्मम् ॥ किमेतदिति विज्ञातु-मादिष्टः कोऽपि वेत्रभृत् विज्ञायागत्य च क्षिप्र-मवनीपं व्यजिज्ञपत् ॥१०॥ देव ! त्वज्जन्मनः पूर्वं, तातपादैनिशात्यये । कोऽपि स्वप्ने सुरो दृष्ट-स्तदादिष्टमिदं तदा ॥११॥ १. हस्तिनागपुरं पुरम्-C॥
यथावच्चित्रशालायां, चित्रमालेखितं पुरा । क्षोमान्तरितमेतच्च, पूज्यते प्रतिवासरम् ॥१२॥ तदद्य देव ! सौहार्द-स्वच्छन्दोद्भूतकौतुकैः । त्रिभिरेतैः शतानन्द-गोविन्द-धरणीधरैः ॥१३॥ उपेत्य दृष्टं विस्पष्ट, सपटीमपनीय च । अकस्मादेव भूपीठे, लुठन्तं च विचेतनैः ॥१४ ॥(युग्मम्) प्रभो ! तदेतान्मूर्छाला-नालोक्यात्यन्तसत्वरः । एष कर्तुं प्रतीकारं, परीवारः प्रवर्त्तते ॥१५॥ नृपोऽथ मान्त्रिकैः साकं, चित्रशालामुपेयिवान् । तदवस्थानिमान्वीक्ष्य, चक्षुश्चिक्षेप भित्तिषु ॥१६॥ रेखावर्णकभावैश्च, विचित्रं चित्रमद्भुतम् । तत्पश्यन् काश्यपीनाथो-ऽप्यपतन् मूर्छितः क्षितौ ॥१७॥ बाष्पपूरैः पुरः पश्चात्, चन्द्रचन्दनवारिभिः । आसन्नलोकः शोकार्त्त-मानसस्तमुपाचरत् ॥१८॥ परीवारोपचारेण, मित्रैः सह महीशितुः । उन्मिमीलत्क्षणेनाथ, नयनाम्भोजवैभवम् ॥१९॥ उज्जृम्भिनयनाम्भोजे, दृष्टे भूभुजि भास्वति । तदाजनि जनो जात-नवपुण्याहमङ्गलः ॥२०॥ अथ सिंहासनासीन-मदीनवदना जनाः । नृपं प्राञ्जलयः प्रोचु-स्तदेतन्नाथ ! कथ्यताम् ॥२१॥ किमेतच्चित्रमेतस्य, किं वा निर्माणकारणम् । दृष्टमात्रे च युष्माकं, किं वा मूर्छयमुत्थिता ? ॥२२॥ अथ पृथ्वीपतिः प्राह, श्रूयतां यदि कौतुकम् । अस्त्यालवालं श्रीवल्ले: पुरं विजयवर्धनम् ॥२३॥

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109