Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________
तरङ्ग-७ : सुलसकथा निःशेषविषवैद्यानां, विद्या दुर्दैवतस्ततः । गता विफलतां तेन, व्यवसायोऽयमीदृशः ॥७४ ।। तदिदं सुलसः श्रुत्वा, वेगाद् गत्वा शबान्तिके । तत्पुरः पुरुषानूचे, वीक्ष्येऽहमपि किञ्चन ॥७५ ॥ नरैश्चावेदितं राज्ञस्तन्नृपेणापि मन्त्रिणाम् । तेप्यूचुर्युज्यते देव !, बहुरत्ना हि भूरियम् ॥७६ ।। ततो राज्ञाभ्यनुज्ञात-स्तत्रैव विजनीकृते । पावनीमवनी कृत्वा, मोचयित्वा नृपात्मजम् ॥७७ ॥ नवेऽम्भःसम्भृते कृत्वा, सुलसः कलशे करम् । अङ्गलीयप्रभावर्द्धि-संवर्धितनखत्विषम् ॥७८ ॥ उन्मीलितसितध्यानः, स्मृतपञ्चनमस्कृतिः । तत्त्वं शिष्यमिवाचार्य-स्तत्पयस्तमपायत् ॥७९ ॥(त्रिभिर्विशेषकम्) तत्र च प्रतिभोल्लास-रिव श्रोत्रैर्विसर्पति । 'उन्मिमील कुमारस्य, दृष्टिः स्पष्टार्थदर्शिनी ॥८॥ ध्यानाभ्यासैरिवाम्भोभि-श्चाभिषिक्ते समन्ततः । तस्मिन् विषमयो मोहः, सप्ररोहोऽप्यपासरत् ॥८१ ॥ सममेव समुत्तस्थु-रथ पृथ्वीशसूनुना । प्रमोदो मेदिनीभर्तुः, जनानां हर्षनिःस्वनः ॥८२॥ आनन्ददुन्दुभिस्तोम-ध्वनिर्मागधसूक्तयः । सुलसस्य यशोराशि-विस्मयश्च कलावताम् ॥८३ ॥युग्मम् ॥ कुमारं सपरीवार-मथालङ्करणांशुकैः । सत्कृत्य सुलसः पादौ, प्रणनाम महीभुजः ॥८४॥ भुजोपपीडमाश्लिष्य, सुलसं काश्यपीश्वरः । जगादानन्दबाष्पाम्भ:-पूर्णचक्षुः सगद्गदम् ॥८५ ॥ १. उन्मिलीनी-प्रतौ ॥
५२
कथारत्नसागरे श्रेष्ठिन्ननन्यसामान्य-मेतत्ते महिमाद्भुतम् । आसतां दूरतो वाच-श्चेतसो पि न गोचरः ॥८६॥ इदं देहमिदं गेह-मियं लक्ष्मीरयं सुतः । त्वया दत्तानिकेनास्तु, तत्त्वयि प्रत्युपक्रिया ॥८७॥ निर्निमित्तोपकर्तारः, चित्रीयन्ते भवादृशाः । ध्वान्तापहर्ता दृष्टः किं, यदि वा न दिवाकरः ? ॥८८ ॥ अतस्त्वामर्थयेः श्रेष्ठिन् !, ममैतामधमर्णताम् । प्रकाश्य वाञ्छितं किञ्चित्, तत्तं कर्तुं त्वमर्हसि ॥८९॥ विभवादिव्ययेनाऽपि, यः सुधीभिरुपाय॑ते । प्रयच्छ तातमानन्दं, दत्तं देवेन किं न मे ? ॥१०॥ इति ब्रुवन्तमभ्यर्च्य, सुलसं वसनादिभिः । 'ससूनुं द्विपमारोप्य, नृपः प्रावेशयत्पुरीम् ॥११॥ सम्प्राप्तपौरसाम्राज्यः, पुरलोकैः पुरस्कृतः । प्रणम्य श्रेष्ठिनः सूनुं, जगाम निजमन्दिरम् ॥१२॥ गुरुदेवार्थिसत्कारैः, पुण्यलक्ष्मीमुपार्जयन् । गुणिनां च गुणानां च, सङ्ग्रहे, साग्रहोऽभवत् ॥१३॥ निर्मलं धर्ममाराध्य, लब्धशुद्धमहाव्रतः । क्रमेणयोगमभ्यस्य, लप्स्यते शाश्वती श्रियम् ॥१४॥ शुद्धात्मानः सुखपद-मदः पांशरं तर्कयन्तः, प्राप्तुं लोकोत्तरपर-पदोत्सङ्गमौत्सुक्यभाजः । स्फीतोत्साहाः सुलससुकथायष्ट्यवष्टम्भलाभादारोहन्तु स्फुरदुरुगुण-श्रेणिनिःश्रेणिमुच्चैः ॥१५॥
इति मलधारिनरचन्द्रसूरिकृते कथारत्नसागरे
सुलसचरितं नाम सप्तमस्तरङ्गः॥ १. असूनुर्द्विप KT

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109