Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________
तरङ्ग-८ : जयराजचरितम्
५७ दयां विना कुतो धर्म-स्तं विना सिद्धयः कुतः ? । धिग् मूर्खाणां विषास्वाद-स्तदयं जीवितार्थिनाम् ॥४८॥ ततस्तेनेति निश्चित्य भणितेनापि नार्पितः । किं वा विवेकिनः कुर्युः कथमप्यपथे पदम् ? ॥४९॥ अथैषां मीलिताक्षाणां, स्थापितानामधोमुखम् । मूर्ध्नि पाखण्डिचण्डाल-श्छगलानामिवाच्छिदत् ॥५०॥ शङ्खस्यापि शिररछेत्तुं यावदुत्तिष्ठते शठः । प्रत्यक्षीभूय यक्षेण, तावदित्यभिधीयते ॥५१॥ आ: पापतापस ! क्षुद्र-प्राणि ! द्रोहछलं विना । छगले च गले चास्य, प्रहरन्न भविष्यसि ॥५२॥ अनुनेतुं गते यक्ष-मथ तापसपांसने । शङ्खस्तमन्यतो नीत्वा-ऽमुञ्चच्छागमनागसम् ॥५३॥ दध्यौ च हन्त ! विश्वस्त-घातिभिः स्वार्थसिद्धये । परेषां वञ्चनव्याजा-दात्मैव खलु वञ्चयते ॥५४॥ ममापि जीवितेनालं, मित्रघातैकसाक्षिणः । मित्रोपकारः को नाम, यदि वा मृत्युनाऽमुना ? ॥५५॥ गतो वा स्वगृहं मित्र-बन्धूनामिदमग्रतः । कथं वा कथयिष्यामि, दर्शयिष्यामि वा मुखम् ? ॥५६॥ तद्युक्तं तत्र मे गन्तुं, यत्र न स्वजनादयः । इति निश्चित्य चित्तेन, वासवाऽऽशां विवेश सः ॥५७ ॥ अथान्यदा व्रजन्मार्ग, शङ्खः सख्यमुपेयुषा । शोकस्य कारणं पृष्टः, श्रावकेण सुबुद्धिना ॥५८ ॥ यथावत्कथिते तेन, सुबुद्धिः पुनरब्रवीत् । धन्योऽसि त्वं महाभाग !, छागरक्षणदक्षिणः ॥५९॥
५८
कथारत्नसागरे अर्थ-कामार्थिभिर्ध्वस्तो-धर्मस्तजनकोऽपि यैः । मत्सरादिव तौ तेषां, मूलोच्छेदं वितेनतुः ॥६॥ त्वया तु रक्षितो धर्मः, त्वं च धर्मेण रक्षितः । तत्ते दृष्टफलः सोऽयं, कामार्थावपि दास्यति ॥६१ ॥ तन्महात्मन् ! ममाद्य त्वां, धर्मसम्बन्धबान्धवम् । मन्त्रराजप्रदानेन, मन:सत्कर्तुमिच्छसि ॥६२॥ तथेति प्रतिपन्नस्य, शुचेर्निमलवाससः । तस्य मन्त्रमयं पञ्च-परमेष्ठिमयं ददौ ॥६३ ॥ आख्यच्च मन्त्रराजेऽत्र, देहिनां हृदि जाग्रति । स्वल्पः कल्पद्रुमः सोऽपि, चिन्ता चिन्तामणौ च का ? ॥६४ ।। न नाम भीतिर्भूतेभ्यो, न क्षुद्रोपद्रवोद्भवः ।। निःशङ्का शाकिनीभ्योऽपि, स्मृतेऽस्मिन् भविनां भवेत् ॥६५॥ त्रिसन्ध्यं तदयं ध्येयं, त्वया तद्गतचेतसा । आराध्या विधिवच्चेयं, धर्मस्य जननी दया ॥६६॥ वैभवाकृष्टिविद्येय-मारोग्यैकमहौषधिः । आयुर्वल्लीसुधाकुल्या, रूपनिर्माणटङ्किका ॥६७ ॥उक्तं च"यथा मेरुर्नगेन्द्राणां वासवो मरुतां यथा । तथैव सर्वधर्माणां, प्रधानं जीवरक्षणम् ॥६८॥ हेम-धेनु-धरादीनां, दातारः सुलभा भुवि । दुर्लभः स पुमान् लोके, यः प्राणिष्वभयप्रदः ॥६९ ॥ महतामपि दानानां, कालेन क्षीयते फलम् । भीताभयप्रदानस्य, क्षय एव न विद्यते ॥७०॥" सुबुद्धिरनुगृह्येनं, स्वयं गुरुमनुस्मरन् । जगामान्यत्र निर्गतु-मन्तः संसारचारकात ७१।।

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109