Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________
तरङ्ग-६ : भुवनचरित्रम् ततः सकोपो भूपालः, कालदण्डाभिधं क्षणात् । तलारक्षं समादिक्ष-त्तस्य निग्रहहेतवे ॥५२॥ वध्यस्थानं तमानीय, स यावत् खड्गमाकृषत् । अपश्यद्विस्मितस्तावत्, पाणौ नीलोत्पलस्रजम् ॥५३॥ अभूत्तमोमयो भानुः, प्रकम्पविधुरा धरा । दिक्चक्रवालमुत्ताल-पांशूत्करकरम्बितम् ॥५४॥ जातः किमन्यत् कल्पान्त-विवशो दिवसस्तदा । आरुरोह च नि:शेष, जगज्जीवितसंशयम् ॥५५॥ न्यवेदि मेदिनीशाय-भृत्यैस्तद्भीषणाद्भुतम् । ततः सपौर: सोप्यागाद्, वेगाद् भुवनसन्निधौ ॥५६॥ अथ पृथ्वीपतिश्चिन्ता-विमर्श-भय-विस्मयैः । स्खलदक्षरमित्यूचे, भुवनं विशदाननम् ॥५७ ॥ क्षम्यतां मे महासत्त्व !, तदिदं सहसा कृतम् । हार्यतां दुरितं दूरं, रहस्यं तं प्रकाश्यताम् ॥८॥ जयन्नवाम्बुदध्वान-मजनि व्योमनि ध्वनिः । साहसं किमहो मोहात्, महीश ! विदधे त्वया ! ॥५९॥ जीर्णोद्धारैकबन्धुर्मे भुवनाऽयं महामनाः । मत्प्रसादादिदं द्रव्य-मुपभुङ्क्ते ददाति च ॥६०॥ अस्य कीर्तिमसहद्भिः, सोदरैस्तु त्वदग्रतः । शून्यं पैशून्यमुत्क्षिप्तं, त्वया च न विचारितम् ॥६१॥ अविचार्य ततः कार्य-मिदमाचरतस्तव । बोधाय तदिदं चक्रे, मया सौधर्मवासिना ॥१२॥ अज्ञानस्यापराधोऽयं, बभूव न पुनस्तव । महात्मा महनीयो-ऽयं भवता तदतः परम् ॥६३ ॥ एवमुक्त्वा सुरे तस्मिन्, विरते दुरितैः सह । स्वसौधे भुवनं निन्ये, समारोप्य द्विपं नृपः ॥६४ ॥
कथारत्नसागरे सन्मान्य तत्र तं राजा, पौरधौरेयकं व्यधात् । बद्धक्रोधश्च तद्बन्धु-त्रयस्य वधमादिशत् ॥६५॥ नत्वा कृताञ्जलिर्भूपं भुवनोऽथ व्यजिज्ञपत् । प्रसादः क्रियतां देव !, मुच्यतां कर्मकर्कशम् ॥६६॥ अपराधो न बन्धूनां, मनागपि मयि प्रभो! । एतद्विपाकसाकल्यं, मम दुष्कर्मणां पुनः ॥७॥ धने वा निर्धने वाऽपि स्वस्वकर्मनिबन्धने । तोषरोषौ जनेऽन्यस्मिन्, विदधाति मुधा कुधीः ॥६८॥ दत्त्वा तदीयबन्धूना-मभयं भूपतिस्ततः । गृहाय प्राहिणोदेनं, प्रशंसावासितस्ततः ॥६९॥ पौरेरन्वीयमानोऽथ, स्तूयमानः स्तुतिव्रतैः । कृतार्थानर्थिनः कुर्वन्, भवनं भुवनो ययौ ॥७०॥ स जीर्णजैनसद्मानि, धार्मिकानर्थिनो पि च ।। विशेषादुद्धरन् लेभे, मानुष्यकतरोः फलम् ॥७१॥ इति भुवनचरित्रालोकमग्रे विधाय, व्यपहतमतिमोह-स्पष्टसन्दृष्टमार्गाः । स्वविभवभरमुच्चै-नेतुकामाः पुमांसः । कलयतु ननु जीर्णोद्धारधौरेयलक्ष्मीम् ॥७२ ।।
इति श्रीमलधारिशिष्य श्रीनरचन्द्रसूरि विरचिते कथारत्नसागरे
भुवनचरितं नाम षष्ठस्तरङ्गः॥

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109