Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________
तरङ्ग-६ : भुवनचरित्रम् वीक्षते भुवनो यावत्, विस्मयस्मेरया दृशा । तावदुत्थाय देवेन, स्वासने विनिवेशितः ॥२६॥ उक्तश्च प्रणयाद् भद्र !, त्वं कार्षीर्मा स्म विस्मयम् । सौधर्मवासी देवोऽस्मि, क्रीडयाऽहमिहागमम् ॥२७॥ पुण्यैर्दिष्ट्याद्य दृष्टस्त्वं, धर्मसम्बन्धबान्धवः । यत्काम्पील्यपुरे जैन-भवनं प्राग्भवे मया ॥२८॥ कारितं तत्प्रभावेन, प्राभवं तदिदं मम । तदभ्युद्धारकारी त-त्त्वमेव मम बान्धवः ॥२९॥ नीयते नीचतां नीचै-र्निखनद्भिः स्ववैभवम् । चैत्योद्धारं वितन्वद्भिरुन्नतैः पुनरुन्नतिः ॥३०॥ अहो ! महात्मना येन, जैनमन्दिरमुद्धृतम् । धर्मकल्पद्रुमस्तेन, रोपितः पृथिवीतले ॥३१॥ तदेतस्य फलं भावि, भवतः शिवसम्पदः । इहत्याः सम्पदस्त्वद्य, श्रयन्तु मुकुलश्रियम् ॥३२॥षड्भिः कुलकम्॥ दत्ते प्रतिवचो यावद् भुवनः स्वर्गवासिनः । तावद्ददर्श तत्रैव, विवरं न च तं सुरम् ॥३३॥ रत्नपर्यङ्किकासीनं चात्मानमवलोक्य सः । अक्षेपेणैव साक्षेप-मक्षिपद्दिक्षु चक्षुषी ॥३४॥ अद्राक्षीच्च ततः सौध-मदभ्राभ्रंलिहोच्छ्यम् । धन-धान्याम्बर-स्वर्ण-रत्नसम्भारसम्भृतम् ॥३५॥ काम्पील्यनगरं तच्च, बन्धुसौधानि तानि च । चिरं परिचितं तं च, स्वकीयमखिलं जनम् ॥३६॥ स्वप्नः किं किमयं मोहः ? कोऽहमित्यपि चिन्तयन् । नभःसम्भूतभारत्या, बभाषे भुवनस्ततः ॥३७॥ सर्वमेतन्मया भद्र !, तेन सौधर्मवासिना । जीर्णोद्धारकबन्धोस्ते, स्वोचितं स्वागतं कृतम् ॥३८॥
४२
कथारत्नसागरे सम्पदं सुकृतक्रीता-मेतां त्वं तत्कृतार्थय । अनुमन्यस्व मां यामि, दुस्तरे च पुनः स्मरेः ॥३९॥ अथास्मिन् विरते तेन, भुवनेन स्ववैभवम् । सफलीकर्तुमारेभे, भङ्गीभिर्दान-भोगयोः ॥४०॥ पितरौ स्वयमभ्यर्थ्य, स निन्ये निजमन्दिरम् । दत्ते धनं च बन्धूनां, इर्श्ययाऽनिच्छतामपि ॥४१॥ सविशेषं विधत्ते च, जीर्णोद्धारधुरीणताम् । पाथोद इव पुष्णाति, किञ्च याचकचातकान् ॥४२॥ धार्मिकेषु च वात्सल्य-मुल्लासयति सन्ततम् । किमन्यज्जनसङ्कल्पे, चलत्कल्पद्रुमायते ॥४३॥ अथास्य भ्रातरो ज्येष्ठा, मत्सरच्छुरिताशयाः । लोकोत्तरां त्रिवर्गस्य, प्रशंसां सोढुमक्षमाः ॥४४॥ राज्ञो निवेदयामासु-रमुनाऽस्माकं बन्धुना । त्वत्पूर्वजनिधानानि, देव ! लब्धानि भूरिशः ॥४५॥ असौ वैदेशिको जातो गृहिणः पुत्रिणो वयम् । तदेतस्य विनाशेन, देव ! गृह्यामहे न हि ॥४६ ॥त्रिभिर्विशेषकं । एवं निवेद्य राज्ञस्ते, जग्मुस्तिग्मान्तराशयाः । भुवनं भूमिनाथोऽपि, समाहूयेदमब्रवीत् ॥४७॥ तवेयं त्यागिनां मध्ये, प्रसिद्धिः सिद्धिमेधते । आयं विना च भो! द्रव्यं, तदतिव्ययतः कुतः ? ॥४८॥ अथासौ चिन्तयामास, कथ्यते वितथं कथम् ? । अथ तथ्यं मया कथ्यं, तन्न श्रद्धानगोचरम् ॥४९॥ वचो वाचंयमोप्यूच्चैर श्रद्धेयार्थमुच्चरन् । याति वाचालवातूल-शब्दयोरभिधेयताम् ॥५०॥ एवं विभावयन्नेव, भुवनः स पुनः पुनः । नरेन्द्रेणोच्यमानोऽपि, प्रत्युवाच न किञ्चन ॥५१॥

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109