Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 29
________________ ३७ तरङ्ग-५ : मित्रसेनकथा विलक्ष्ये वीक्ष्यमाणेऽस्मिन् कान्दिशीके दिशां मुखम् । अकस्मान्निकटग्रामाद्, दधिप्राभृतमागमत् ॥५८॥ आचान्तः शिशिरैनौरैः, कर्पूरोद्गारचारुभिः । चकारोद्वर्तनं श्रेष्ठी, हस्तयोश्चन्दनद्रवैः ॥५९॥ घनसारेण ताम्बूलं, सचिवाय वितीर्य सः । अन्येषां दापयामास, जनानां सहभोजिनाम् ॥६॥ क्षणं काव्यैः क्षणं गीतैः, वेणु-वीणाक्वणैः क्षणम् । क्षणं सुमन्त्रवार्ताभि-रपराह्न निनाय सः ॥६१ ॥ क्षालितांहेश्चतु:शाले, हंसतूलीनिषेदुषः । स्फुरत्कर्पूरताम्बूल-सुरभीकृतवेश्मनः ॥६२॥ तत्र रात्रौ सुमन्त्रस्य, हृदि तद्भागवैभवम् । स्मरतः श्रोत्रुमभ्यागात्, पूर्ववद्देवतध्वनिः ॥६३ ॥ अरेरे सूपकृत्याशु, निर्वासं नूनमर्हसि । परं मया प्रसादस्ते, स्थगितो दध्युपायनात् ॥६४ ॥ इति श्रुत्वा दिशः पश्यन्, सद्गन्धोज्ज्वलवाससम् । मौक्तिकैर्भूषितां काञ्चित्, देवतां ददृशे पुरः ॥६५॥ ससम्भ्रममथोत्थाय, तामूचे सचिवोत्तमः ।। का त्वं कश्च प्रकारोऽय-मुभयत्र त्वया कृतः? ॥६६॥ साप्युवाच त्वमायातो-ऽपनेतुं नृपसंशयम् । एतयोः कुलदेव्या तन्मयैतत्तव दर्शितम् ॥६७॥ अयं हि भावनाभोगाद, भोगदेवो भवान्तरे । ददौ दानं मुनीन्द्रेभ्य-स्तेनाऽभूद् द्रव्यभोगभाक् ॥६८ ॥ सन्मित्रं सकलत्रं च, सद्रव्यं सुपरिच्छदः । सिक्तस्य भावनाम्भोभि-रिति दानतरोः फलम् ॥६९॥ ३८ कथारत्नसागरे निधिदेवः पुनर्दानं भावनाविकलं ददौ । भोगहीनश्च दीनश्च, तेन सत्यपि वैभवे ॥७० ।। धनवान् निधिदेवोऽयं भोगदेवस्तु पुण्यवान् । दृष्टस्त्वया विशेषोऽयं, जानातु नृपतिश्च ते ॥७१ ॥ सुमन्त्रमिति सम्बोध्य, तिरोधत्ते स्म देवता । असावपि निशाशेषमनैषीदुन्मिषन् मतिः ॥७२॥ प्रातर्विहितसन्मानः, सुमन्त्रः श्रेष्ठिना स्वयम् । तत्रैव संशयं मुक्त्वा , जगाम निजपत्तनम् ॥७३॥ स यथा वृत्तवृत्तान्तादयस्कान्तादिव क्षणात् । सन्देहशल्यमुद्दभ्रे, नरेन्द्रहृदयस्थितम् ॥७४ ॥ दृष्टान्तमेनमास्थाय, स्वगुरौ बहुमानवान् । भावेन विदधे धर्म, मित्रसेनमहीपतिः ॥७५ ॥ भावनायानपात्रेण, समुलय भवार्णवम् । समन्त्री मित्रसेनोऽसौ, लप्स्यते परमं पदम् ॥७६ ॥ भोगदेवनिधिदेवचेष्टितं, स्पष्टमित्थमवगम्यदेहिनः । पुण्यमत्युदितभाववैभवं, मित्रसेननृपवद्वितन्यताम् ॥७७॥ इति मलधारिशिष्यश्रीनरचन्द्राचार्यविरचिते कथारत्नसागरे मित्रसेनचरितनाम पञ्चमस्तरङ्गः ॥७८॥

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109