Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________
तरङ्ग-५ : मित्रसेनकथा दधे मुक्तामयी तस्य, कर्णयोः कुण्डलद्वयी । मुखाब्जोपान्तविश्रान्त-राजहंसद्वयश्रियम् ॥११॥ महच्च विहितं ज्ञातु-मन्तरं व्योम-चक्षुषोः । वक्षसि स्वर्नदी तस्य, स्फारहारनिभादभात् ॥१२॥ तस्य मुक्तामणिश्रेणि-मयी 'प्रतिसरावलिः । पाणिकल्पलतापुष्प-स्तबकश्रियमाश्रयत् ॥१३॥ दुकूलयुगलं तेन, सुधांशु-करसोदरम् ।। वपुर्लवणिमाम्भोधि-स्फारफेननिभं दधौ ॥१४॥ ततस्स्तम्बेरमस्कन्ध-मध्यासीनो विशाम्पतिः । मायूरछत्रखण्डेन, छन्नमार्तण्डमण्डलः ॥१५॥ मतङ्गजमदामोद-मेदुरं ध्वनिनीरजः ।। पटवासं दिशां कुर्वन्, जगाम गुरुसन्निधौ ॥१६ (युग्मम्) प्रणम्य तस्मिन्नासीने, कराब्जकृतकुड्मले । दिदेश निर्मलं धर्म, गुरुर्गम्भीरया गिरा ॥१७॥ 'मानुष्यकादिसामग्री-मधिगम्य विवेकिना । विधेयो धर्म एवैकः, सुखसम्पत्तिहेतवे ॥१८॥ यथा सुवर्ण केयूर-कोटीर-कटकादयः । तथैव धर्मः सौभाग्य-वैभव-प्राभवादयः ॥१९॥ परं सोऽपि मन:शुद्ध्या, विधेयो बुद्धिशालिभिः । अन्यथा निष्फलः सोऽयं, शाखावानिव नीरसः ॥२०॥ यथौषधरसैः स्वर्णं, न रसेन्द्रं विना भवेत् । तथा धर्मैः फलं नैव, जन्यते भावनां विना ॥२१॥ तस्य भावेन मुक्तस्य, युक्तस्य च फलं हि तत्॥ यदत्र धनिनः केपि, पुण्यवन्तस्तथापरे ॥२२॥
३४
कथारत्नसागरे जगाद मेदिनीनाथो, 'न च मिथ्या भवद्वचः । दृश्यते धनिनां पुण्य-वतामपि च नान्तरम्' ॥२३॥ इति राज्ञो वचः श्रुत्वा-ऽचिन्तयन्मुनिपुङ्गवः । बुध्यते दुर्विदग्धो हि, न दृष्टप्रत्ययं विना ॥२४॥ एवं विभाव्य भूपालं, प्रत्यवोचन्मुनीश्वरः । 'विशेषे धनिनां पुण्य-वतामपि च संशयः ॥२५॥ निधिदेव-भोगदेवौ कन्यकुब्जनिवासिनौ । यातस्य भवतस्तत्र, स्वयमेव हरिष्यतः' ॥२६ ॥युग्मम् ॥ बहुमन्य महीनाथ-स्तदेतद् वचनं गुरोः । उपास्य च यथाकालं, जगाम निजमन्दिरम् ॥२७॥ ततः सुमन्त्रं मन्त्रीशं, मूर्त्यन्तरमिवात्मनः । प्राहिणोत् प्रत्ययापेक्षी, कन्यकुब्जपुरं प्रति ॥२८॥ धृतावधूतनेपथ्यः, सुमन्त्रोऽपि नृपाज्ञया । कन्यकुब्जपुरं यातः, प्रातमध्यं विवेश सः ॥२९॥ विंशते: स्वर्णकोटिना-मीश्वरत्वमुपेयुषः । प्रसिद्ध निधिदेवस्य, मन्दिरं मुदितो ययौ ॥३०॥ विशीर्णजर्जरोपान्त-विकीर्णाऽवकरोत्करे । वेतालप्रतिमोत्ताल-प्रविशन्निस्सरज्जने ॥३१॥ द्वारदेशे स्थितं तस्य, पटच्चरपरिग्रहम् । वरत्राचलनव्यग्र-हस्तमस्ताङ्गसंस्कृतिः ॥३२॥ द्वारपालं पुरः प्रेक्ष्य, पप्रच्छ सचिवोत्तमः । 'वैदेशिकोऽस्मि भो ! ब्रूहि, निधिदेवः क्व वर्त्तते ?'॥३३॥
[त्रिभिर्विशेषकं]

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109