Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 25
________________ तरङ्ग-४: श्रीदत्तकथा २९ अथोवाच महीनाथः, 'कथमित्थमभूदिदम् ? । (त्रिभिर्विशेषक : ) वियुक्तस्तादृशेनाऽस्मि, यन्मित्रेण महात्मना ॥५७॥ परार्थजागरुकेण, तेजः प्रसरशालिना । मित्रेण रहितं भाति, विश्वमेतत् तमोमयम् ॥ ५८ ॥ ततो यामस्तमानेतुं कौतुकं तच्च वीक्षितुम् । इत्युक्त्वा श्रेष्ठिना साकं, भूपालः प्राप रोहणम् ॥५९ ॥ ततश्च दापितावासः प्रदेशे पूर्वशीलिते । श्रेष्ठिना दष्टवर्त्मा च द्रष्टुं भुवनमभ्यगात् ॥६०॥ विज्ञातपूर्वाभिज्ञानं ज्ञापितस्थाननिश्चयः । ददर्श वसुधाधीश - स्तन्न सौधं न तास्त्रियः ॥ ६१ ॥ मित्रसेनमपश्यंश्च, विषण्णः खिन्नमानसः । बभाषे भूपतिः श्रेष्ठिन् ! बभूव किमिदं हहा' ॥ ६२ ॥ जगाद सार्थवाहोऽपि पश्यावस्तावदन्यतः । देव ! खेदाद् विषादाद्वा, दैवं भवति नान्यथा' ततस्तद्वचसा यावत्, पुरो व्रजति भूपति । तावच्चामीकरागारं तेजः सारमिवैक्षत ॥६४॥ प्रविशन् विस्मयोत्तान - नयनस्तन्निकेतनम् । कृतान्तकिङ्करप्रायै- नरैर्लगुडपाणिभिः ॥६५॥ अरघट्टे भ्रम्यमाणं जरद्रवमिवातुरम् । निः पतत्प्राजनाघात-जातव्रणकिणाङ्कितम् ॥६६॥ क्षीणशोणितमांसत्वा-द्दारुपुत्रकसन्निभम् । ॥६३॥ मित्रसेनं नृपः पश्यन्, शोक- हर्षमयोऽभवत् [त्रिभिर्विशेषकः ] ॥६७ ।। सोऽपि क्ष्मापालमालोक्य मूर्छालस्तत्क्षणादभूत् । इष्टदृष्टिर्यत: शोक - कपाटोद्घाटकुञ्चिका ॥ ६८ ॥ ३० जगाद गद्गदं राजा, 'मित्र ! श्रीदत्तशंसितम् । तद्वैभवं क्व भवतः, क्व चावस्थेयमीदृशी ?' ॥ ६९ ॥ सोप्युवाच तदा याते, श्रीदत्ते सौधगामिना । दृष्टुं चामीकरागारं कारागारमिदं मया लोभाम्भोनिधिकल्लोलै-ललितो निजमन्दिरात् । प्रविष्टोऽत्र नरैरेभिर्लाभितश्चेदृशीं दशाम् ॥७१॥ पण्डितानां हि पाण्डित्यं शूराणां शौर्यगर्जितम् । धैर्यं गलति धीराणां कषायभटसंकटे ॥ ७२ ॥ तावन्नीतिर्विनीतत्वं मतिः शीलं 'कुलीनता । यावज्जगज्जयी लोभः, क्षोभं नाभ्येति जन्तुषु ॥ ७३ ॥ लोभस्य निगृहीतस्याऽनिगृहीतस्य च प्रभोः । दृष्टान्तो दर्शितः सोऽयं श्रीदत्तेन मया च ते ॥ ७४ ॥ मयि त्वमधुना स्वामिन् ! विधेहि समयोचितम् । स्वामिदृष्टिसुधावृष्टौ सन्तापः क्वानुजीविनाम् ? ॥ ७५ ॥ अब्रवीत् किङ्करान् राजा, 'मित्रं नो मुच्यतामिदम् । तेऽप्युचुर्मुच्यते देव !, रोहणेश निदेशतः ॥७६ ॥ मित्रमाश्वास्य भूपालः स्वमावासमुपेत्य च । श्रेष्ठिना सहितश्चक्रे, रोहकाराधनं तपः ॥७७॥ उपवासत्रयान्ते च प्रत्यक्षं रोहणेश्वरम् । जगाद नृपतिः 'स्वामिन्! मुच्यतां मित्रमावयोः ॥७८॥ राज्यं रत्नानि सैन्यानि भवन्ति भुजशालिनाम् । अनुरक्तं च भक्तं च मित्रं भवति वा नवा' ॥७९॥ १. T/ विवेकता- DC I कथारत्नसागरे || 06 ||

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109