Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________
तरङ्ग-२ : वसुतेजश्चरित्रम्
तस्य सैन्यद्वयस्यापि घननिस्वाननिस्वनैः । शब्दाद्वैतमयं जज्ञे, रोदः कन्दरमन्दिरम् ॥५१॥ पुरः प्रयाते पादात पदपातप्रकम्पिता । चलत्कुलाचलश्रेणि-र्दध्रे विधुरतां धरा ॥ ५२ ॥ द्वयोः प्रववृते तत्र सैन्ययो दरुणो रणः । दोलाकेलिर्ययौ तत्र जयलक्ष्मीर्गतागतैः ॥५३॥ अथ स्वयं समुत्थाय, कुमारः सारविक्रमः । तं वैरिणं रणे बध्वा जग्राह निजवल्लभाम् ॥५४॥ सध्रीचीवचनैः सापि, सानन्दमभिनन्द्य तम् । तत्कण्ठैकावलीतोयैर्वितेने व्रणरोहणम् ॥५५ ॥ नतं मङ्गलराजं तं विमुच्य निजपत्तनम् । आजगाम कुमारोऽसौ, तया दयितया सह ॥ ५६ ॥ अभियातः स तातेन, पौरेरप्यभिनन्दितः । बहिरेव पुराद्भेजे, पाणिग्रहमहोत्सवम् ॥५७॥ ततः पुरवधूनेत्र - मीलद्वन्दनमालिकम् । साकेतं केतुमालाभिर्मालितं प्रविवेश सः ॥ ५८ ॥ सूरतेजास्ततस्तस्य सुतस्य गुणशालिनः । यौवराज्यमयीं लक्ष्मीं, द्वैतीयक वधूं व्यधात् ॥५९ ॥ युवराजः स निर्व्याजं, प्रतापं पृथिवीपतेः । दत्त्वावष्टम्भसंरम्भ-मम्भोनिधिमुपानयत् ॥ ६० ॥ अथ वैषयिकं तस्य, सुखं निर्विशतः सतः । आयातः केवली तत्र नाम्ना भुवनभास्करः ॥ ६१ ॥ तत्र तच्चरणाम्भोजे, रजसा विरजस्कताम् । करिष्यन्नात्मनो राजा, निर्ययौ स परिच्छदः ॥६२॥ प्रणिपत्य मुनिं चास्मिन्नुचितासनसङ्गिनि । व्यातेने मुनिना धर्म देशना क्लेशनाशिनी ॥ ६३ ॥
१५
१६
कथारत्नसागरे
अथाऽवसरमासाद्य, पप्रच्छ स्वच्छया गिरा । प्रभो ! किमर्जितं पुण्य-मवैगुण्यं सुतेन मे ? ॥६४॥ येनायमुदयत्युर्व्या-मव्याहतपराक्रमः ।
उवाच केवली वत्स !, श्रूयतां यदि कौतुकम् ॥ ६५ ॥ इहैव नगरे पूर्व, सुदत्तो रथकारकः । बभूव दानश्रद्धालु- मानस सोन्यदा वने ॥६६॥
गतः काष्टार्थमालोक्य मुनिं मासोपवासिनम् । पारणार्थमुपायातं, श्रद्धाबन्धुरमानसः ॥६७॥ प्रासुकैरन्नपानाद्यैः, पूजयामास भक्तिमान् । इयं च गेहिनी तत्र देहिनीवाऽस्य भावना ॥ ६८ ॥ तदाऽनुमोदयामास पात्रदानं प्रमोदिनी । ततस्तदनुभावेन, विक्रमाक्रान्तभूतलः ॥ ६९ ॥ अयं तव सुतो जातः सेयमस्य च वल्लभा । किञ्च साप्यनयोर्मुक्ति- पदवी न दवीयसी ॥७०॥ इति श्रुत्वा महीनाथो, धर्मनिर्माणकर्मठः । राज्यश्रियं सुते दत्त्वा संयमश्रियमाददे ॥ ७१ ॥ वसुतेजास्ततो राज्यं सम्यक् सम्यक्त्वरत्नवत् । पालयामास निःशेष-मखण्डितपराक्रमः ॥७२ ॥ तीर्थप्रभावनां चापि कुर्वन्नुर्वीतलेऽखिले । धर्मन्यायमयं राज्यं चक्रे चक्रेश्वरोपमः ॥७३॥ इति नृपवसुतेजा:- स्पष्टदृष्टान्तमन्तजनसमवदधानाः सादरं देहभाजः । असमतमसुखार्थी, प्राणिसङ्कल्पकल्प द्रुमसममसमानं दानमाराधयन्तु ॥ ७४ ॥
इति श्रीमलधारिशिष्य-श्रीनरचन्द्रसूरिविरचित-कथारत्नसागरे वसुतेजश्चरितं नाम द्वितीयस्तरङ्गः ॥

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109